This page has not been fully proofread.

नामरूपज्ञानम्
 
१८५
 
3. Roots—many, with pungent smell and taste.
4. Actions and uses —posesses anti-biotic pro-
perty, useful in infective disorders like ab-
scess; also used as vegetable.
 
१४३. शुण्ठी
 
Sunthi
 
१. शुण्ठी (भा० ) – शुण्ठति हन्ति कफं वातञ्चेति, 'शुठि प्रतिघाते' ।
अथवा, शुण्ठति शोषयति कफमामञ्चेति, 'शुठि
शोषणे' अथवा, स्वयमेव शुष्कत्वात् शुण्ठीति
प्रसिद्धा । अन्यत्रापि शुण्ठशब्दः शुष्के प्रयुक्तः यथा
मूलकशुण्ठकम्, बिल्वशुण्ठकम् इत्यादि ।
 
२. अवाक्छत्रम् (सो०) – अवाक् अधस्तले छत्राकाराणि पत्राण्य-
स्य । 'महीच्छत्रकम्' (म०नि) अपि तदर्थकमेव ।
३. अहिच्छत्रकम् (म०नि०) –'महीच्छत्रकम्' इत्येतस्य पाठा-
न्तरम् । सर्पफणाकारपुष्पमस्याः ।
 
-
 
४. उत्कटम् (नि०) – तीक्ष्णम् ।
 
५. ऊषणम् (भा० ) – दाहकारि ।
६. कटु (नि०) – कटुरसम् ।
 
७. कटुग्रन्थि (रा० ) – कट्वः ग्रन्थयो मूलेऽस्य ।
८. कटुभद्रम् (कै०) – कटुभेषजेषु भद्रं हितकारि ।
९. कफारिः (रा०) – कफनाशकः ।
 
busici
 
ollage
 

 
१०. नागरम् (भा० ) – नगरे प्राप्यम्, वणिजामापणेषु बहुशो लभ्यते;
– नागरं श्रेष्ठम् ।
 
अथवा
 
-
 
-
 
११. महौषधम् (भा०) – महच्च तदौषधम्, प्रकृष्टकर्मकर्तृत्वात् ।
१२. विश्वभेषजम् (भा०) – विश्वेषां व्याधीनां निवारकम्; अथवा-
विश्वप्रसिद्धं भेषजं, सुलभत्वात् गुणकारित्वाच्च ।