This page has not been fully proofread.

१८०
 
Nāmarūpajñānam
 
१३९. शाकः Śaka
 
१. शाकः (अ०) – शक्नोति भारं सोढुमिति ।
 
२. अभ्रंलिहः (म०नि०) – अभ्रं लेढीव, अत्युच्चत्वात् ।
 
३. अर्जुनोपमः (प०) – अर्जुनसदृशः ।
 
४. कोलफलः (नि०) – कोलाकृति फलमस्य ।
 
-
 
५. खरच्छदः (भा० ) – खराः कर्कशाश्छदाः पत्राण्यस्य । यथाह
डल्हणोऽपि—'खरमसृणपत्रपृष्ठोदरः' इति ।
 
६. गृहद्रुमः (रा० ) – गृहोपकरणोपयोगी वृक्षः ।
७. द्वारदारु: (कै०) – द्वारनिर्माणे प्रयुक्तं दार्वस्य ।
 
८. बलप्रदः (म०नि०) – बलं प्रकृष्टं ददातीति ।
 
९. बृहच्छदः (अ०) –बृहदाकाराश्छदाः पत्राण्यस्य । 'महापत्रः' इति
कैयदेवो वदति ।
 
१०. भूमिसहः (भा०) – भूमेर्भारं सहते इति ।
 
११. शरद्भानुः (भा०) – शरत्कालीनसूर्य इव प्रकाशमानः ।
१२. वरदारु: (अ०) -वरं श्रेष्ठं दार्वस्य ।
 
१३. सुगन्धसारः (म०नि०) – सुगन्धिः सारोऽस्य । 'सुरभिसारकः'
इति कैयदेवः, तस्यापि स एवार्थः ।
 
१४. सुस्थिरः (म०नि०) – सम्यक्तया दृढः ।
१५. स्थिरसारः (रा०) – स्थिरो दृढः सारोऽस्य ।
 
Śāka ( Tectona grandis Linn. f. ) is a tall tree
(abhramliha) like arjuna (arjunopama ), quite firm
(susthira ) with large rough leaves (brhacchada,
kharacchada) and jujube-shaped small fruits (kola-