This page has been fully proofread once and needs a second look.

१६२
 
Nāmarūpajñānam
 
१२६.<entry> रोहीतकः
 
<entry>Rohiītaka
 

 
१. रोहीतकः (भा०) - रोहयति पुनरुद्भावयति यकृत्प्लीहक्रियां

मनः प्रसादञ्चेति, 'रुह बीजजन्मनि प्रादुर्भावे च', 'तक

हसने' च ।
 

२. दाडिमच्छदः (द्र०) – दाडिमस्येव छदाः पत्राण्यस्य ।
 

३. दाडिमपुष्पक: (भा०) – दाडिमस्येव पुष्पाण्यस्य ।
 
-
 
-
 

४. प्लीहघ्नः (अ०) - प्लीहवृद्धिं हन्तीति; 'प्लीहशत्रुः' (अ०को०)

इममेवार्थं व्यनक्ति ।
 

५. यकृद्वैरी (श०) – यकृद्रोगनाशकः ।
 

६. रक्तघ्नः (सो०) – रक्तविकारं हन्तीति; अत एव 'रक्तप्रसादनः'

इति भावप्रकाशे गुणवर्णने ।
 

७. रक्तपुष्पकः (अ०) – रक्तवर्णं पुष्पमस्य ।
 

८. रक्तवल्क: (प्रि०) – रक्तं वल्कलमस्य ।
 

९. रोचन: (कै०) – रोचते शोभते मनोज्ञपुष्पैरिति; 'रोच दीप्तौ'; रुचिं

वर्धयतीति वा ।
 

१०. रोहितकः (भा० ) – लोहितपुष्पः ।
 

११. रोही (भा०) – रोहयति यकृत्प्लीहक्रियामिति ।
 

१२. वरतिक्तः (प०) - तिक्तद्रव्येषु श्रेष्ठः । 'वनतिक्तः' इति रामाश्रमी,

तत्र वने जातस्तिक्तरसो द्रुमः' इति ।
 

 
Rohiītaka ( Tecomella undulata Seem. ) is a

handsome (rocana) tree growing wild and with bit-

ter taste ( vanatikta, varatikta ). Its wavy leaves and

reddish flowers (rohiītaka, raktapuspaka ) resemble

those of dadāḍima ( dadāḍimacchada, dadāḍimapuspaka )