2023-06-11 15:45:19 by Akshatha
This page has been fully proofread once and needs a second look.
१०३.<entry> पिप्पली<entry> Pippalī
१. पिप्पली (भा० ) – पिपर्ति पालयति पुरुषं पूरयति च क्षीणान्
धातूनिति 'पॄ पालनपूरणयोः' ।
२. उपकुल्या (भा०) – कुल्यामुप समीपे गता जायमाना।
३. ऊषणा (भा०) — ऊषति रसनां व्यथयति कटुत्वात्, 'ऊष रुजा-
याम्' ।
४. कणा (भा०) – कणाकारफलत्वात् ।
५. कृष्णा (भा०) –कृष्णफला, पक्वे सति फलानि रक्तानि, तदनु
शुष्कानि कृष्णानि भवन्ति । निघण्टुशेषः 'कृष्ण-
तण्डुला' इति पठति । अथवा-कृषति दोषानिति 'कृष
विलेखने' ।
६. कोला (भा०) – कोलप्रमाणं फलमस्याः, कटुत्वाच्च ।
७. चपला (भा०) –चपति शमयति रोगान्, लाति चारोग्यमिति; 'चप
सान्त्वने'; प्रसरणशीलत्वाच्च ।
८. तीक्ष्णतण्डुला (भा०) – तीक्ष्णास्तण्डुला बीजान्यस्याः; क्वचित्
'तिक्ततण्डुला' इति पाठः ।
९. मागधी (भा०) – मगधेषु भवा ।
१०. वैदेही (भा० ) – विदेहेषु भवा ।
११. शौण्डी (भा०) – शुण्डा मद्यपानगृहम्, तत्र हिता; मद्याभिषवे
मद्यपाने चोपदंशरूपेण प्रयोज्यत्वात्; शुण्डाकारफल-
त्वाच्च ।
Pippalī (Piper longum Linn.) is a weak plant
growing mostly in damp regions of Magadha and
Videha (māgadhī, vaidehī ) particularly alongside