This page has been fully proofread once and needs a second look.


१०१.
१०१. <entry>पाटला<entry>talā
 
१. पाटला (भा० ) – पाति टलनात् वैक्लव्यात्, 'टल वैक्लव्ये';
अथवा – पाटयति दौर्गन्ध्यं लाति च सौगन्ध्यम्' इति ।
२. अमोघा (भा० ) –न मोघा निष्फला, बहुफलत्वात्, कार्मुक-
त्वाच्च ।
३. अम्बुवासिनी (अ०) - अम्बु जलं वासयति सौगन्ध्यात्, पाटला-
पुष्पस्य जलाधिवासने प्रयुक्तत्वात्, यथोक्तं वृद्धवाग्भ-
टेन जलशोधनप्रसङ्गे– 'पाटलाकरवीरादिकुसुमैर्गन्ध-
नाशनम्' इति; सुश्रुतेऽपि – 'नागचम्पकोत्पलपाटला-
पुष्पप्रभृतिभिश्चाधिवासनम्' इति ।
४. अलिवल्लभा (भा०) – भ्रमराणां प्रिया, मधुमयत्वात् ।
५. काचस्थाली (भा०) – काचा कृष्णा स्थाली वृन्तमस्याः ।
६. कुबेराक्षी (भा० ) – कुबेरस्याक्षिसदृशं बीजमस्याः ।
७. कुम्भीपुष्पी (कै०)धन्वन्तरिः– कुम्भवत् कुम्भ्या इव वा पुष्पमस्याः ।
धन्वन्तरि:'कुम्भिका' इति पठति ।
८. कृष्णवृन्तकुसुमा (कै०) – कृष्णवृन्तानि कुसुमान्यस्याः;
'कृष्णवृन्ता' इति भावप्रकाशः ।
९. खरच्छदः (प्रि०) – खराः परुषाश्छदाः पर्णान्यस्य । १
१०. ताम्रपुष्पी (भा०) – ताम्रवर्णं पुष्पमस्याः ।
११. फलेरुहा (भा०) — बीजाद् रोहतीति ।
१२. मधुदूती (भा० ) – मधोः वसन्तस्य दूती सूचिका, वसन्ते पुष्पित-
त्वात् । अन्यत्र 'कामदूतिका' इति; तथापि स एवार्थः,
वसन्तः कामस्य सखेति प्रसिद्धः ।
१३. स्थिरगन्धा (रा० ) – स्थिरो गन्धोऽस्याः ।