This page has been fully proofread once and needs a second look.

नामरूपज्ञानम् M
 
११७
 
५. छर्दनः (कै०) — छर्दयतीति, वामक इत्यर्थः । 'छर्दिघ्नः' इति
 

पाठ: पर्यायरत्नमालायाम्, पित्तश्लेष्मजछर्द्यामु-

पयोगित्वात् । bas
 

६. नियमनः (ध० ) – नियच्छति शमयति रोगानिति ।
 
buddiziq
 
vtushing and (1) 29
 
९. पिचुमर्दः
 
Depozib qizla
 

७. नेता (ध०) –नयति प्रापयत्यारोग्यमिति; ओषधीनामग्रणीर्वा ॥

८. पारिभद्रः (भा० ) – परितः भद्रः कल्याणकरः । धन्वन्तरिः

'सर्वतोभद्रः' इत्यपि पठति ।
 

९. पिचुमर्दः
(भा० ) – पिचुं कुष्ठं मर्दयति नाशयतीति; अथवा–

पिचुकस्य फलविशेषस्य माधुर्यं मर्दयतीति, यथोक्तं

प्रियनिघण्टौ– 'निम्ब: स्यात् पिचुमर्दश्च पिचुमाधुर्य-

मर्दनात्' इति । 'पिचुमन्दः' इत्यस्यापि स एवार्थ: ।
 

१०. पूयारिः (श०) –पूयनाशकः ।
 

११. मालकः (अ० को० ) – मलते शरीरं दोषानपाकृत्येति; 'मल

धारणे' । 'शुकमालकः' इति निघण्टुशेषे, शुकस्य

मालाऽत्रेति ।
 

१२. वरत्वचः (प०) - वरा श्रेष्ठा त्वगस्येति ।
 

१३. शुकप्रियः (ध०) – शुकानां प्रियः ।
 
39
 

१४. सुतितक्तकः (ध०) – अतितिक्तः, तिक्तद्रव्येष्वग्रगण्यः । 'वर-

तिक्तः' इति राजनिघण्टौ ।
 

१५. हिङ्गुनिर्यासः (भा०) – हिङ्गु इव निर्यासोऽस्य ।
 
.F
 

 
Nimba ( Azadirachta indica A. Juss. ) is a popu-

lar tree the bark of which is generally preferred as

drug ( varatvaca ). Parrots gather on the tree (śuka-

priya ) and fruits are eaten by crows ( kākaphala ).