This page has been fully proofread once and needs a second look.

-II-
तेष्वेव सार्थकान् संकलय्य सार्धशतौषधिवनस्पतीनां स्वरूपचित्रणमत्र

प्रस्तुतम् । एतेनौषधिपरिचायकानां विशिष्टव्यञ्जनानां ज्ञानेन साकं

शास्त्रकृतां शैलीविशेषस्याप्याभासो लप्स्यते । अभिनवोऽयं समारम्भो

मनीषिणां मनांस्यपि मोदयिष्यति ।
 

 
एष उपक्रमो दिङ्गिर्देशमात्रः, अग्रे नूतनं नामरूपज्ञानात्मकमङ्गमिदं

द्रव्यगुणशास्त्रस्य कालक्रमात् समुपबृंहितो भवितेत्याशासे ।
 

 
गुरुधाम, वाराणसी

कृष्णजन्माष्टमी

वि०सं० २०५६
 

 
प्रियव्रतशर्मा
 
Ansts