This page has not been fully proofread.

पुरोवाक्
 
नामरूपज्ञानं नाम द्रव्यगुणशास्त्रस्य नवोद्घाटितमङ्गं येनौषधीनां
नामरूपे ज्ञायेते । चरकसंहितायां प्रागेव नामरूपज्ञानस्य महत्त्वं प्रति-
पादितम्, यथा— 'योगविन्नामरूपज्ञस्तासां तत्त्वविदुच्यते' इति, 'औषधं
ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः' इति च । एतेनौषधिविज्ञानस्य मुख्यं
विभागद्वयं कृतम्–१. नामरूपज्ञानम् ( परिचयविज्ञानम् ), २. गुण-
कर्मज्ञानपुरःसरं प्रयोगज्ञानञ्चेति । पूर्वं द्रव्याणां परिचयो नामरूपज्ञानेन,
ततस्तेषां गुणकर्मज्ञानमन्ततश्च प्रयोगज्ञानमित्येष क्रमः । द्रव्यज्ञानस्य
प्रारम्भो नामरूपज्ञानाद् भवति, परिणतिश्च तत्प्रयोगे यतः प्रयोगावधिको
ह्यायुर्वेदः स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनञ्चेति प्रयोजन-
द्वयसिद्धयर्थं वरीवर्त्ति ।
 
'नामरूपज्ञानम्' इति पदं त्रिधा व्युत्पाद्यते-
१. नाम च रूपञ्च, ते ज्ञायेतेऽनेनेति ।
 
२. नामभी रूपं ज्ञायतेऽनेनेति । अत्राभिधानं नाम रूपञ्चाभिधेयं,
तयोर्वाच्यवाचकसंबन्धो लक्ष्यलक्षणसंबन्धो वा, यथोक्तं राज-
निघण्टौ– 'आचक्ष्महे लक्षणलक्ष्यधारकं नामोच्चयं सर्वरुजा-
पहारकम्' इति ।
 
३. नामरूपयोः सामञ्जस्यं ज्ञायतेऽनेनेति । ग्रन्थेऽस्मिन् द्वितीयां
व्युत्पत्तिमाधृत्य नाम्नां पर्यायसहितानां निरुत्तयौषधीनां स्वरूपं
निरूपितम् । इह नामशब्देन मुख्यनाम पर्यायाश्च गृहीताः, रूपं
तावत् स्वरूपमाकृतिः प्रकृतिश्च गुणधर्मात्मिका ।
 
प्राक्काले ओषधिवनस्पतयः सन्निकर्षादतीव परिचिता आसन्,
अतस्तेषां विवरणं नापेक्षितमासीत्, तद्विहाय पर्यायमुखेन संक्षेपत एव
· सङ्केतो विहितः । तैः पर्यायैः द्रव्याणामाकृतेः प्रकृतेश्च ज्ञानं भवति ।