This page has not been fully proofread.

१००
 
Nāmarūpajñānam
 
4. Root—like elephant's tusk.
5. Action —purgative.
 
८२. दाडिमः
 
Dādima
 
१. दाडिमः (भा० ) - दाल्यते विदार्यते रसावाप्त्यर्थमिति, 'दल
विदारणे' ।
 
२. करकः (भा०) – कृणोति हिनस्ति रोगानिति, 'कृञ् हिंसायाम्';
किरति विक्षिपति बीजानि वा, 'कृ विक्षेपे' ।
 
३. कुट्टिम: (ध०) – कुट्टते द्दिद्यते इति, 'कुट्ट छेदने' ।
४. दन्तबीज: (भा०) – दन्तसदृशानि बीजान्यस्य ।
 
५. पथ्यकारी (सो०) – हितकरः ।
 
६. फलषाडव: (धं०) –फलरूपः षाडवः मधुराम्लकल्पः ।
७. मणिबीजः (सो०) –मणिः स्फटिकः माणिक्यं वा, तद्वद् बीजा-
न्यस्य ।
 
८. रक्तबीज: (ध०) – रक्तवर्णानि बीजान्यस्य ।
 
९. रसालकः (सो०) –रसपूर्णः ।
 
१०. लोहितपुष्पक: (भा०) – लोहितं रक्तवर्णं पुष्पमस्य ।
 
११. वल्कफलः (रा०) – वल्कलावृतं फलमस्य ।
 
१२. वृत्तफलः (रा०) – वृत्तं फलमस्य ।
 
१३. शुकेष्टम् (अ०) –शुकानां प्रियम् ।
१४. स्वाद्वम्लम् (ध०)–मधुरमम्लञ्च रसे ।
 
Dadima ( Pumica granatum Linn ) is a plant
with red flowers ( lohitapuspaka ). Fruits are round