This page has not been fully proofread.

९६
 
Nāmarūpajñānam
 
त्वाद्वाऽस्मिन्; अथवा कुटः कोटरं, तस्मिन् पुष्प-

मस्याः ।
 

३. कुम्भा (कै०) – कुम्भ: कोष्ठः, तच्छुद्धिकरत्वात् कुम्भाह्वा ।

४. कोटरवाहिनी (अ०) – कोटरे पुष्पं वहतीति, अन्त:कोटरपुष्पी-

त्यर्थः ।
 
clg
 

५. त्रिपुटा (भा०) – त्रयः पुटाः त्रिकोणत्वादस्याः ।
 

६. त्रिभण्डी (भा०) – त्रिभिः कोणैः भण्ड्यते लक्ष्यते इति, 'भडि

परिभाषणे'; त्रीन् दोषान् भण्डयति तत्कल्याणं करो-

तीति, 'भडि कल्याणे' ।
 

७. त्र्यस्त्रा (ध०) – त्रयोऽस्राः कोणा अस्य ।
 

८. निशोथ: (भा०) -निवारयति शोथं, रेचनत्वात् ।
 

९. रेचनी (भा०) – रेचयतीति; क्वचित् 'रोचनी' इत्यपि पाठः, तत्र

मलशोधनात् रुचिकरीत्यर्थः ।
 

१०. सरणा (अ०) –मलं सरति निर्गच्छत्यनया, रेचनीत्यर्थः ।

११. सरला (भा०)–सारयति मलं लाति च सौमनस्यमिति; सुख-

विरेचनी वा ।
 

१२. सर्वानुभूतिः (भा०) – सर्वैरनुभूयतेऽस्याः प्रभाव इति । प्रिय-

निघण्टौ परिचयोऽस्या यथा-

'मूलं रक्तनिभं त्रिपक्षसहितं काण्डं सितं रोमशं

वल्ली वेल्लति सुप्रभूतप्रसरा त्वारुह्य कञ्चिद् द्रुमम् ।

अन्तःकोटरपुष्पकं सितदलं वृत्तं फलं क्षुद्रकं

श्रेष्ठा सर्वविरेचनेषु सुखदा वैद्यैर्मता सा त्रिवृत् ॥' इति ।
 

 
Trivṛt (Operculina turpethum (Linn.) Silva

Manso) is a climber with triangular and three-winged

stem ( trivrt, trivrta, triputā, tribhandi, tryasrā ). It