This page has not been fully proofread.

९४
 
Nāmarūpajñānam
 
estonarts oflibsq?
 
1. Habitat—hilly areas.
 
Inst 1
 
2. Bark, leaves and fruits — acrid, aromatic.
Properties—intensely hot and irritant.
 
3.
 
Specific characters
 
७८. तुलसी Tulasi
 
१. तुलसी (भा०) –तोलयति प्रतिष्ठते इति, ओषधिषु प्रतिष्ठितेत्यर्थः;
'तुल प्रतिष्ठायाम्' ।
 

 
२. अपेतराक्षसी (भा०) - अपेताः निवारिता राक्षसा अनया; भूत-
घ्नीत्यर्थः ।
 
३. कायस्था (अ०) – कायं स्थापयति नानारोगनिवारणेनेति ।
४. ग्राम्या (भा०) –ग्रामे ग्रामे भवा ।
 
५. चक्रपर्णी (कै०) – अत्र 'चक्रपुष्पी' इति पाठो युक्तः । चक्रे
स्थितानि पुष्पाण्यस्याः ।
 
६. देवदुन्दुभिः (भा०)–देवानां दुन्दुभिः, तदाकारपुष्पमञ्जरीत्वात् ।
७. पूतपत्री (रा०) – पूतानि पवित्राणि पत्राण्यस्याः ।
८. बहुमञ्जरी (भा०) –बढ्यो मञ्जर्योऽस्याः ।
९. शूलघ्नी (भा०) – शूलं हन्तीति ।
 
aryth०१
 
१०. सुरभी (ध०)–सुगन्धिः ।
 
ndmuT
 
११. सुरसा (भा०) – शोभनो रसोऽस्याः, शोभनत्वं बहूपयोगित्वं
रोगहन्तृत्वञ्च ।
 
१२. सुलभा (भा०) – सर्वत्रोपलभ्यमाना ।
 
१३. स्वादुगन्धिच्छदा (अ०) –स्वादुगन्धयश्छदाः पत्राण्यस्याः ।