This page has not been fully proofread.

८८
 
Nāmarūpajñānam
 
७३. ज्योतिष्मती Jyotismati
 
१. ज्योतिष्मती (भा० ) – ज्योतिषा शुभ्रबिन्दुभिर्युक्तं काण्डमस्याः
ज्योतिर्मेधा, तत्प्रदत्वाच्च; ज्योतिरग्निः, तद्वती उष्ण-
वीर्या च ।
 
२. अग्निभा (नि०) - अग्निवद् भा दीप्तिरस्याः, पुष्पितायां सत्याम् ।
३. कणिका (अ०) – कङ्गसदृशबीजा ।
 
४. काकाण्डी (सो०) – काकाण्डवत्फला ।
 
५. ज्योतिष्का (भा० ) – द्योतमाना ।
 
६. दुर्जरा (रा०) – दुष्पाच्या, गुरुत्वात्; रसायनत्वेन जरायाः प्रति-
षेधकत्वाद् वा ।
 
७. दुर्मदा (सो०) – ईषन्मदान्विता ।
 
८. पण्या (भा०) –पणे साधुः पण्या, आपणे व्यवहृतत्वात् ।
९. पारावतपदी (भा०) – पारावतस्येव पदं मूलमस्याः ।
१०. पीततैला (अ०) -पीतवर्णं तैलमस्याः ।
 
११. मेध्या (रा०) – मेधायै हिता ।
 
-
 
१२. लता (भा०) – वल्लीरूपा ।
 
१३. लवणा (ध०) – लुनाति छिनत्ति रोगानिति ।
१४. वेगा (अ०) – आशुकारिणी, उद्वेगजनिका वा ।
१५. सुवर्णलतिका (ध०) – पीतपुष्पान्विता लता ।
१६. सूक्ष्मफला (कै०) – ह्रस्वफला ।
 
mu
 
१७. स्फुटत्वचा (कै०)–स्फुटा द्योतमाना त्वगस्याः ।
 
wilhin
linage
 
bina Jyotismati ( Celastrus Panniculatus Willd ) is a
climber (latā) having stem with shining dots