2023-02-15 04:03:33 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनोव्याख्यासंवलितः
७१
तानि तेषां विकृत्यर्थत्वं सन्निधिपाठात् । तेषां हि कैमर्थ्याकाङ्क्षायां फलवद्वि-
कृत्यपूर्वमेव भाव्यत्वेन संबध्यते, उपस्थितत्वात् । अत एव तेषु न विश्वजि
नन्यायावतारः । स्वतन्त्र फलार्थ वे विकृतिसन्निधिपाठानर्थ क्यापत्तेश्च ।
पशुधर्माणामग्नोषीमीयार्थत्वमनुष्ठानसादेश्यात् । श्रोपवसथ्येऽह्नि श्र-
ग्नीषोमोयः पशुरनुष्टोयते, तस्मिन्नेव दिने ते धर्माः पठ्यन्ते । अतस्तेषां
कैमर्थ्याकाङ्क्षायामनुष्ठेयत्वेनोपस्थितं पश्चपूर्वमेव भाव्यत्वेन संवध्यते । अतो
युक्तमनुष्ठान सादेश्यात्तदर्थत्वं तेषाम् ।
न च पाठसादेश्यादेव तत्किं न स्यादिति वाच्यम् । अग्नीषोमीयस्य
पशोः क्रयसन्निधौ पाठात् । न च क्रयसन्निधौ तस्य पाठे तदनुष्ठानमपि तत्र
स्यादिति वाच्यम् । 'स एष द्विदैवत्यः पशुरोपवखध्ये ऽहन्यालब्धव्यः' इति
चचनात्तदनुपपत्तेः । न च स्थानात्प्रकरणस्य बलीयस्त्वेन पशुधर्माणां ज्योति
यौचित्यात् । विकृतेश्च स्वतः फलत्वाभावादिस्याशङ्कयाह - फलवद्विकृतीति । विकृ·
त्यपूर्वस्य स्त्रतः फलरूपत्वाभावेऽपि फलवत्वात् तदन्वयेऽपि परम्परयाऽङ्गानां फलवत्वं
लभ्यत एवेति भावः । श्रानर्थक्यापत्तेश्चेति चकारेणोपस्थितपरित्यागे प्रमाणाभा-
वोऽपि पूर्वोक्तरसमुच्चितः ॥
एवं द्विविधमपि पाठसा देश्यं निरूप्याधुनाऽनुष्ठानसादेश्यं निरूपयति- पशुधर्मा-
णामिति । उपाकरण, नियोजन, पर्यग्निकरण, संज्ञपनादीनां पशुयागाज्ञानामित्यर्थः ।
यो दीक्षितो यदग्नीषोमोयं पशुमालभते" इति विहितो योऽग्नीषोमदेवताकः
पशुयागः तदर्थत्वमित्यर्थः । अनुष्ठानसादश्यमेव निरूपयति - श्रौपवलथ्य इति ।
औपवसथ्यमहः दीक्षादिनतः चतुर्थमहः । दिन इति । तस्मिन् दिनेऽनुष्ठेयत्वेन पठि•
तानां धर्माणां मध्ये उपाकरणादयोऽपि पठिता इत्यर्थः ।
-
ननु अग्नीषोमीयस्यौपवसथ्येऽह्नि अनुष्ठाने तथाठेनापि तत्रैव भाव्यम् । एवञ्च
प्रबलेन पाठसादेश्येनैव धर्माणां पश्वपूर्वार्थत्वे सम्भवति किमर्थ दुर्बलप्रमाणाश्रयण मिति
शङ्कते-न चेति । तत् अग्नीषोमीयार्थत्वम् । अथवा ननु 'श्राग्नेयमग्निष्टोम
आलभत' इत्यस्य सवनीय विधायकस्यौपव सध्ये ऽहन्येव पाठात् प्रबलेन पाठसादेश्येन
धर्माणां सवनीयपश्वपूर्वार्थत्वे सम्भवति किमर्थ दुर्बतेनानुष्ठानसादेश्येनाग्नीषोमीयार्थ-
स्वमङ्गीक्रियते इति शङ्कतेन चेति । अस्मिन् पक्षे तदिस्यनेन सामान्यतः पश्वपूर्वस्य
ग्रहणम् । अथवा अग्नेय एवाग्नीषोमीयभ्रान्त्या पृच्छति –नचेति । य श्रौपवसथ्येऽ.
इनि पठितः स नाग्नीषोमीयः, स तु क्रसन्निधौ पठितः, अतः पाठसा देश्याभावात् न
तेनाङ्गत्वमित्यर्थः । क्रय सन्निधाविति । 'अरुणया पिकाचयेत्यादिवाक्यैः दीक्षणी-
योत्तरदिनेऽनुष्ठेयत्वेन विहिता ये सोमक्रयाः तत्सन्निधावित्यर्थः । ननु यस्य यत्र पाठ
स्तत्रैव तस्यानुष्ठानमुचितमिति अग्नीषोमीयस्य क्रय सन्निधौ पाठे तत्रैव तस्यानुष्ठानापत्या
पशुधर्मेस्सहानुष्ठान सा देश्यस्याप्यभावात् कथं तद्ग्राहकत्वमिति शङ्कते-नचेति । ननु
एषां ज्योतिष्ठोममद्दाप्रकरणे पाठात् प्रकरणात् तदर्थत्वमेव कुतो न स्यात् इत्याशङ्कते-
Bhandarker Oriental
Research