This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ स्थान-
स्थानं क्रमश्चेत्यनर्थान्तरम् । पाठलादेश्यमपि द्विविधम्-यथासङ्ख्य
पाठः सन्निधिपाठश्चेति । तत्र 'ऐन्द्र । झमेकादशकपालं निर्वपेत्, 'वैश्वानरं
द्वादशकपालं निर्वपे'दित्येवंक्रमविहितेष्टिषु 'इन्द्राग्नी रोचना दिव' इत्या-
दोनां याज्यानुवाक्यामन्त्राणां यथासङ्ख्यं प्रथमस्य प्रथमं द्वितीयस्य द्वितो.
यमित्येव (१) यो विनियोगः स यथासङ्ख्यपाशत् । प्रथमपठितमन्त्रस्य हि
कैमर्थ्याकाङ्क्षायां (२)प्रथमतो विहितं कर्मैव प्रथममुपतिष्ठते, समानदेशत्वात् ।
 
यानि तु वैकृताभ्यङ्गानि (३) प्राकृताङ्गाननुवादेन विहितानि संदेशापति-
७४
 
गभ्यत्वात् सादेश्यादेश्च शब्दत्वाभावात् न विनियोजकत्वम्, अतश्च तेषां प्रयोजनाका•
ज्ञायां विश्वजिन्न्यायेन स्वर्गार्थत्वमेव युक्तमित्यत ग्राह-विनियोगस्य कारणमिति ।-
यद्यपि सादेश्यस्य न शब्दरूपत्वं, तथापि सन्निधिपठितानामजानां प्रधानोपकारसम्पाद-
कत्वे सम्भवति न कल्पनागौरवापादकस्वर्गफलकर युक्तम् । अतश्च प्रधानार्थत्वे वर्णनीये
पाठसादेश्यादेर्युक्चैव नियामकतेति भावः । श्लोकस्थक्रमशब्दस्यार्थान्तरपरत्वभ्रमं वार-
यितुमाह- स्थानमिति । अनर्थान्तरमिति । पर्याय इत्यर्थः । ऐन्द्राग्न मे कादशक
पालमिति । अस्ति काम्येष्टिकाण्डसमाख्यातः फलार्थमिष्टीनां विधायको ब्राह्मणभागः ।
अस्ति च काम्येष्टियाज्यानुवा क्या काण्डसमाख्यातो मन्त्रभागः । तत्र काम्येष्टिकाण्डे
येष्टिः प्रथमं पठिता तस्याः काम्येष्टियाज्यानुवाक्याकाण्डगतं प्रथमं याज्यानुवाक्यायुगल.
मङ्गम्, द्वितीयस्या इष्टेः द्वितीयं युगलमङ्गमित्येवंरूपेण यः क्रमः स यथासंख्यपाठादि.
त्यर्थः । किमत्र नियामकम् ? अत श्राह - प्रथमेति । कैमर्थ्याकाङ्क्षायां प्रयोजना
काङ्क्षायाम् । समानदेशवत्वादिति । उभयोः प्रथमपठितत्वेन प्राथम्य रूपैक देशस्थत्वा-
दित्यर्थः । इदमुदाहरणं मैत्रायणीयशाखानुरोधेन, तत्रैव द्वितीयकाण्डे प्रथमप्रपाठ
के
प्रथमेऽनुवाके "ऐन्द्राग्न मेकादशकपालं निर्वपेत् यस्य सजाता वीयायुः" इत्यै-
न्द्राग्नेष्टिं विधाय द्वितीयेऽनुवा के वैश्वानरेष्टविंधानात् । एवं चतुर्थकाण्डे एकादशप्रपा-
ठके ऐन्द्राग्नमन्त्रानाम्नाय वैश्वानरमन्त्राणामाम्नानात् ॥
 
एवं यथाक्रमपाठं निरूप्येदानीं सन्निधिपाठं निरूपयति- यानि त्विति । वैकृतानि
विकृतिर्सान्निधौ पठितानि न वैकृता त्वमात्रेण सन्निधिग्राह्यत्वं भवति । श्रौदुम्बरत्व शरा-
देवेंकृताङ्गत्वेऽपि प्रकरणमाह्यत्वानपायात् । अत आह - प्राकृताङ्गाननुवादेनेति । ते
हि प्राकृतखादिरत्वबर्हिः कार्यानुवादेन विहिता इति न तत्रातिप्रसङ्ग इति भावः । ननु
प्राकृताज्ञाननुवादेन विहितानां विदेवनादीनां प्रकरणग्राह्यत्वमस्त्येव, तह- सन्द-
शापतितानीति । विदेवनादयो हि सन्दंशपतिता इति पूर्वमेवोक्तम् । श्रुतो न तत्राति-
प्रसङ्गः । ननु नाज्ञानां विकृत्यर्थत्वं भवितुमर्हति । तेषां फलाकासासवेन फलेनैवान्व-
-
 
१. यत्तच्छग्दौ न स्तः । २. प्रथमविहितं
 
३. यश्वत्र कचित् पुस्तकेषु प्राकृताङ्गानुवादेना विहितानि इति पाठो दृश्यते । व्याख्यातं च कैश्चित्
तमेव पाठमवलम्व्य, तन्न युक्तम् । न ह्यत्राविहितस्याङ्गत्वं वक्तुं प्रवृत्तिर्ग्रन्थकारस्य । अतो यथोक्त एव
पाठस्साधीयान् ।
 

 
FOUNDED
1917