This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचनी व्याख्यासंवलितः
 
( स्थानप्रामाण्यनिरूपणम् )
 
देशसामान्य स्थानम् । तच्च द्विविधम्-पाठसादेश्य मनुष्ठानसा देश्यं
चेति । यदाहुः- Spipes opresto
तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः ।
पाठानुष्ठान सादेश्याद्विनियोगस्य कारणम् ॥ इति ।
 
f
 
७३
 
इत्यभिषेचनीयानहोम विशेष श्राम्नायते । तेन विदेवनादीनामभिषेचनीयाजसन्हब्धतयाऽऽ.
म्नातानां तदवान्तरप्रकरणेनाभिषेचनीयमात्रार्थत्वात् तेषां क्रमप्रकरणविरोधोदाहरणत्वं
कृत्वा चिन्तयेत्युक्तम् । तत्रेदं वक्तव्यम्-नाभिषेचनीयस्यावान्तरप्रकरणं सम्भवति ।
"स हि ज्योतिष्टोमविकृतिभूतः क्लृप्तोकारैः प्राकृतैरेव धर्मेंनिराकावृक्षः । न च मारुतस्येति
वाक्येनाभिषेचनीयाज्ञभूता इष्टिरप्याम्नायते । तस्य पूर्वविहितमारुतामिक्षायागाङ्गभूतयोः
स्विष्टकृद्यागयोः कालमात्र विधायकत्वात् । तैत्तिरीयब्राह्मणे हि प्रथमाष्टके सप्तमप्रपाठ के
सप्तमानुवाके 'मारुत एष भवति, 'एकविंशतिकपालो भवति' इति वाक्यद्वयेन
मारुतयागः तद्गुणश्च विहितौ । तत्रैव दशमानुवाके 'वैश्वदेव्यामिक्षा' इत्यनेनामि-
क्षायागो विहितः । तत्सम्बन्धिनोश्च स्विष्टकृद्यागयोरतन्त्रेणानुष्ठानमनेन वाक्येन विधीयते ।
एवं सत्यपि यद्येतदनन्तरं विहितस्य होमविशेषस्य प्राकृत कार्यापत्नत्वेन विधानं स्यात्
तदानीं तादृशपदार्थान्वयं यावदाफाक्षाया अनुवृत्तेः तत्सन्दष्टानां विदेवनादीनां भवेद-
वान्तरप्रकरणादभिषेचनीयात्वम् । न त्वेतदस्ति । केवलमसंयुक्ततयैव तस्य विधानात् ।
प्राकृताङ्गानुवादेन विहितधर्ममध्यपतितस्यैवासंयुक्ताशस्य विकृतौ प्रकरणमात्यत्व सिद्धा
न्तात् । श्रत एवोक्तं भाट्टदीपिकायां- यस्य हि प्रधान कार्यापन्नतया वैकृताङ्गस्य
विधानं, यथा- श्रौदुम्बरत्वशरत्वादेः, तस्यैवानिवृत्ताकाङ्क्षतया विधानम्,
तत्सन्दष्टस्यैव च तत्पूर्वभाविनो वा प्रधानोत्तराङ्गस्य विकृतिप्रकरणेन ग्रह-
णम्" इति । एवश्च होम विशेषस्य विकृतिभावनायां निवृत्ताकाक्षायामेवोपहोमादिवत्
विधानात् नात्रावसरोऽवान्त प्रकरणस्य । एतदेवाभिप्रेश्य वातिककारैरप्युक्तम्-"यद्य.
निराकाङ्क्षीकृ ते ऽभिषेचनीये तेषां पाठः स्यात् ततोऽवान्तरकरणमवगभ्येत ।
स तु प्रागेव विदेवनादिश्यः प्राकृतैर्धमैं निराकाङ्क्षीकृतः' इति । 'योग्योपका-
रप्रदानेन पूरिते कथंभावे निवृत्तं प्रकरणम्, समीपाग्नात धर्मानर्थक्यापत्ति-
भयादेव पुनरुत्पाद्येत' इति च । एवश्व स्थान विनियोज्यत्व यैस्व सम्भवात् युक्ता क्रम-
प्रकरण विरोधोदाहरणतेति । MISTREJER
 

 
( स्थाननिरूपणम्)
 
क्रमप्राप्तं स्थाननिरूपणमवतारयति – देशसामान्यमिति । समानदेशवत्वमित्यर्थः।
एकस्थल सम्बद्धत्वमिति यावत् । पाठसादेश्यमिति । पाठतः सादेश्यमनुष्ठानतस्सा देश्य-
मित्यर्थः । अत्र वार्तिकं प्रमाणयति-तत्रेति । देशसामान्यलक्षणः सादेश्यरूपः ।
पाठानुष्ठानसादेश्यादिति । सादेश्यशब्दः 'द्वन्द्वान्त' इति न्यायेन प्रत्येकं सम्बध्यते ।
पाठसा देश्यात् अनुष्ठानसादेश्यादित्यर्थः । ननु श्रलौकिकार्थस्य शब्दातिरिक्त प्रमाणा-
१० मी० म्या०
 
FOUNDED
 
वधीतमस्