This page has not been fully proofread.

७२
 
मीमांसाश्यायप्रकाश
 
[ प्रकरण-
। नैराकाइघेऽपि न राजसूयत्वेन रूपेण नैराकाइयमिति वाच्यम् । आकाङ्क्षाद्वये
प्रमाणाभावात् । wwwind
 
कि च प्रातिस्विकरूपैर्या कथंभावाकाङ्क्षा सापि फलसम्बन्धोत्तरकालम् ।
स व राजसूयत्वेन, न तु प्रातिस्विकरूपैः, राजस्यत्वेन च फलसंबन्धे उत्प
नायाः कथंभावाकाङ्क्षायाः विदेवनादिभिः शान्तेर तिदेशकल्पनमेव न स्यात् ।
यदि हि सामान्य रूपेण प्रातिस्विकरूपेण च फलसंबन्धविधायि वाक्यद्वयं
भवेत्तदा युज्येताप्यकाङ्क्षाद्वयानुसारेण विदेवनादीनामातिदेशिकानां चाङ्गानां
संबन्धः । न (१) तु तदस्ति । तस्मात् प्राकृतैर्धमै नैराकाङ्क्षयान्न विदेवनादीनां
प्रकरणं विनियोजकमिति चेत् -
सांप्रदायिकैवि देवनादीनां सन्दशो दर्शितः । राज-
सूयत्व पुरस्कारेण ये धर्मा विधीयन्ते 'राजसूयाय होना उत्पुनाति' इत्येव-
मादयस्तम्मध्ये विदेवनादयः पट्यन्ते । अतस्ते सर्वे राजसूयाङ्गं प्रयाजानु-
वादेन विधीयमानधर्ममध्ये पठितप्रयाजाङ्गाभिक्रमणवत् । तस्मात् युक्त-
मुक्तं विदेवनादीनां प्रकरणाद्वाजसूयाङ्गत्वमिति । तत्सिद्धं प्रकरणस्य स्थाना-
द्वतीय स्त्वमिति ।
 
सत्यम्, अत एव
 
राजसूयभावनाया अतिरिक्तत्वेन तासां च स्वस्वेतिकर्तव्यताविषयिण्या एकस्या एवा.
काक्षाया अङ्गीकर्तुमुचितत्वादिति भावः ।
 
कर
 
ननु प्रातिस्विकरूपेणोपन्नायामेव कथंभावाका क्षायां प्राकृतपदार्थान्वयात् पूर्व
मेव विदेवनादीनां विधानात् कुतो न प्रकरणग्राह्यतेत्यत ग्राह-किञ्चेति । फलसम्च-
न्धोत्तरकाल मिति । निरूपितमेतदद्धस्तात् । स च फलसम्बन्धश्च । श्रुतिदेशकल्प-
नमेव न स्यादिति । प्रातिस्विकरूपेण या आकाक्षा तस्या एव राजसूयवाक्ये राज
सूयत्वधर्मावच्छिन्नत्वेन प्रतीयमानत्वात् तस्याश्च विदेवनादिभिश्शान्तत्वादाकाङ्क्षाभावे-
न प्राकृतानां घर्माणामतिदेशो न स्यादित्यर्थः । ननु स्यादेतदेवं यद्येकैवा का इक्षा,
आकाङ्क्षाद्वयाङ्गीकारे को दोषः ? अत आह- यदि हीति । तस्मादिति। विदेव-
नादिभ्यः पूर्व प्राकृतपदार्थान्वयस्यैवावश्याभ्युपगन्तव्यत्वादित्यर्थः । न प्रकरणं विनि
योजकमिति । उभयाकाङ्क्षाभावादिति भावः ।
 
-
 
समाधत्ते – सत्यमिति । राजसूयाय होना उत्पुनातीति । एनाः राजाभिषेका
र्थमाहता अपः राजसूयाय हि राजसूयार्थमेव खलूत्पवनं करोत्यध्वर्युरित्यक्षरार्थः ।
सर्व इति । विदेवनाद्यभिषेकान्ता इत्यर्थः । राजसूयाङ्गत्वे दृष्टान्तमाह - प्रयाजेति ।
प्रकरणमुपसंहरति – तस्मादिति। यत्वत्र मयूखमालिकायां – तैत्तिरीय शाखायाम
भिषेचनीयप्रयोगमध्ये 'दिशोऽभ्ययं राजाभूदिति पञ्चाक्षान् प्रयच्छति' इत्येवमादि-
भिविंदेवनादीन् विघाय तदनन्तरं मारुतस्य चैकविंशतिकपालस्य वैश्वदेव्य
चामिक्षाया अग्नये स्विष्टकृते समवद्यति' इत्यभिषेचनीया ङ्गेष्टिविशेषमाम्नाय 'अपां
नत्रे स्वादोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहेति तिस्र आहुतीर्जहोति'
 
Research Institute