2023-02-15 04:03:33 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनोन्याख्या संवलितः
६६
षेचनोयस्याव्यक्तचोदनाचोदितत्वेन ज्योतिष्टोमविकारत्वात्प्राकृतैरेव धर्मेनिं-
राकाङ्क्षत्वात् । किन्तु प्रकरणाद्राजसूयाङ्गम् ।
ननु 'राजा राजसूयेन स्वाराज्यकामो यजेत' इत्यत्र राजसूयशब्द-
स्तावन्नामधेयत्वा दाख्यातपरतन्त्रो यत्राख्यातं तत्रैव प्रवर्तते । न च 'दर्श-
पूर्णमासाभ्यां स्वर्गकामो यजेते त्यत्र यथा दर्शपूर्णमासपदं नामधेयमपि
नाख्यातपरतन्त्रम्, तत्र हि यजेतेत्याख्यातमविशेषात्सर्वानेव प्रकृतानाग्ने.
यादीन् प्रयाजादींश्चाभिधातुं समर्थम्, दर्शपूर्णमासपदं त्वाग्नेयादीनेव वद-
ति, न सर्वान्, अतश्च न तदाख्यातपरतन्त्रम् । तथो राजसूयपदमपि किं
न स्यादिति वाच्यम् । प्रसिद्धेन हि पदेनाप्रसिद्धं नि (१)र्णीयते । यथाहुः-
पदमशातसंदिग्धं प्रसिद्धैरपृथकश्रुति ।
निर्गीयते निरूढं तु न स्वार्थादपनीयते ॥ इति ।
भिषेचनीय, दशपेय, केशवपनीय, व्युष्टिद्विरात्र, क्षत्रधृति, संशकाः (२) षट् सोमयागाम
विहिताः । तत्र अभिषेचनीयाख्यसोमयागसन्निधौ "श्रव्यति, राजन्य जिनाति,
शौनश्शेपमाख्यापयत" इत्यादिभिः अदेवनराजन्यजयादयः श्रूयन्ते त इत्यर्थः ।
धर्माः जानि । तेषां विदेवनादीनाम् । तदङ्गत्वम् अभिषेचनीयाङ्गत्वम् । ननु अभि
षेचनीयस्य निर्धर्मकरवेन कथंभावाकाङ्क्षासवात् विदेवनादीनामप्याकाचावत्वात् तेषाम..
भिषेचनीयाङ्गत्वं प्रकरणा देव कुतो न स्यात् ? इत्यतः माह- अभिषेचनीयस्येति ।
ज्योतिष्टोमविकारत्वादिति । श्रव्यक्तचोदितानां ज्योतिष्ठोमविकारत्वस्याष्टमे "म
व्यक्तासु तु सोमस्य" इत्यनेनोक्तत्वादिति भावः । श्रव्यक्तत्वस्वरूपं पूर्वमेव निरूपि-
तम् । प्राकृतः श्रग्निष्टोमसंस्थाकज्योतिष्टोमाज्ञैः ॥
ननु' 'अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति" इत्यादिवाक्यविहितानामेवे.
टिपशुसोमानां "राजसूयेन स्वाराज्यकामो यजेत" इत्यनेन फलसंबन्धबोधनातू
तेषामेव राजसूयपदवाच्यत्वमशीकरणीयम् । ते च प्रत्येकं स्वैः स्वैः प्राकृतैरङ्गैर्निरा-
काङ्क्षा इति उभयाकाङ्क्षाभावात् कथं विदेवनादयः प्रकरणग्रायाः ? इत्याशङ्कते-न-
न्विति । तत्र वर्तत इति । आख्यातं यादृशार्थबोधकं तादृशार्थबोधकमित्यर्थः । ननु
नामघेयत्वेऽपि दर्शपूर्णमासपदवत् स्वतन्त्रतैवाऽस्तु इत्याशङ्कते–न चेति । दर्शपूर्ण
मासंपदस्य स्वतन्त्रतां विवृणोति — तत्र हीति । आग्नेयादीन् इत्यादिपदेन पञ्चप्रधा-
नयागा गृह्यन्ते । प्रयोजादोन इत्यादिपदेन अनूया जाज्य भागादीनामङ्गयागानां ग्रहणम् ।
ततश्च यजति चोदनाचोदितान् प्रकृतान् सर्वानेव वदतीत्यर्थः। आग्नेयादीनेवेति । येषां
कर्मणां स्वोत्पत्तिवाक्ये श्रमावास्यापौर्णमासीरूपकालश्रवणमस्ति तेषामेव दर्शपूर्णमासप-
दवाच्यस्वस्य पौर्णमास्यधिकरणे स्थापितत्वात् आग्नेयादीनां षण्णामेव तथात्वादिति
भावः । इदश्वाग्रे मूलेऽपि व्यक्तीभविष्यति । परिहरति- प्रसिद्धेनेति । पदमिति ।
अर्थविशेषवाचित्वेन अज्ञातं अत एव च सन्दिग्धं पदं अर्थविशेषवाचित्वेन प्रसिद्धः
पदैः अपृथक्श्रुति सामानाधिकरणय निर्दिष्टं सत् अर्थविशेषबोधकत्वेन निर्णीयते । यन्त
-
१ नियम्यते, २ यत्त्वत्र शतपथभाष्ये सप्त सोमयागा इत्युक्तं तत् व्युष्टिद्विरा त्रस्य द्वित्वमभिप्रेत्य तस्य द्वय
हानुष्ठेयस्वात् । न तु वस्तुतो याग सप्तकाभित्रायेण । तथास्वे बच्चीनां श्रुतीना कल्पसूत्राणां च विरोधात्।