This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
न चाङ्गभानायाः कथं भावाकाङ्क्षाभावात् कथं प्रयाजभावनाकथंभावेना-
मिक्रमणं गृह्यते इति वाच्यम् । भावनासाम्येन सर्वत्र कथंभावाकाङ्क्षायाः
सत्त्वात् । प्रयाजैरपूर्व कृत्वा यागोपकारं भावयेदित्युक्ते यो नाम न जानाति
प्रयाजेरवं कर्तुं तस्यास्त्येव कथंभावाकाङ्क्षा-कथमेभिरपूर्वं कर्तव्यमिति । सा
च सन्दंशपतितेत्रांच निकैः स्मातश्चाचमनादिभिः शाम्यति । तद्भावे च स्वरू
पनिष्पादनेन दविहोमन्यायेन निवर्तते । दर्विहोमेषु हि स्वरूपनिष्पादनाति-
रिक्तस्तथा व्यापारो न श्रयते । नाष्यतिदेशेन तत्प्राप्तिः । यागीयानां धर्माणां
तावन्नातिदेशः, यागत्वेन होमत्वेन वैलक्षण्यात् । नापि होमीयानाम्, कस्य
प्रयाजकथम्भावेत्यर्थः । वार्तिकं प्रमाणयति- परेति । परप्रकरणस्थानां दर्श-
पूर्णमासप्रकरणस्थानां प्रयाजादीनां श्रङ्गे श्रौपभृताज्यसमानयनादिके श्रुत्यादिभित्रि-
भिः श्रुतिलिङ्गवाक्यैः ज्ञाते पूर्व विहितत्वेनावगते पश्चादपि तैः श्रुत्यादिभिः कस्मिंश्चिदशे
विहिते सति तत्सन्दष्टं तत् तन्मण्यविहितं किंचिदङ्गं तादृशपूर्वोत्तरराङ्ग सन्दंशेन प्रथा जाद्य
भवतीति श्लोकार्थः । यद्यपि पूर्वमिति नैवास्ति श्लोके तथापि पुनश्चेति चशब्दबलात्
तल्लभ्यत इति न दोषः । अत्र प्रधानभावनानामेवेतिकर्तव्यताकाङ्क्षा, तासामेव फल
साघनत्वेन कथमित्याकाङ्क्षोदयात्, नाजभावनानां, तासामफलत्वात् इति वदतां प्राभा-
कराणां मतमनुवदति - न चेति । श्रङ्गभावनानामपि कार्यतया विधिना बोधितत्वात्
कार्यस्य चालौकिकत्वात् अनितप्रकारत्वेन कर्तव्यता विशेष रूपे ति कर्तव्यताकाङ्क्षा सम्भ-
वत्येव तासामपीति परिहरति भावनासाम्येनेति । अङ्गभावनाया श्रपि भावनात्वा-
विशेषात् प्रधानभावनांतुल्यस्वेनेत्यर्थः । सर्वत्र सर्वास्वपि भावनासु सन्दशपति-
तैरिति । अभिक्रमणादिभिरिति शेषः । सन्दंशामावस्थले। कथमाकाङ्क्षाशान्तिः ? "अत
ह-वाचनिकैरिति । "इन्द्र ऊर्ध्वो अध्वर इत्याघारमाघारयति
वचनविहितैर जैरित्यर्थः। तेषामध्यभावे कथम् ? इस्या आह - स्मार्तेरा चमनादिभि-
रिति । "श्राचारतेन कर्म कर्तव्यम्" "दक्षिणाचारेण कर्तव्यं" इति सर्वकर्म
साधारण्येन स्मृतिविहितैः आचमनदक्षिणपाण्याचरणादिभिरित्यर्थः
 
इत्यादि
 
६७
 
स्वरूपनिष्पाइनेनेति । यथाश्रुन कर्मस्वरूपमात्रानुठानेनेत्यर्थः । दर्विहोमन्यायेन
नेति । यथा दर्वीहोमा पूर्वाः श्रुतेतिकर्तव्यताश्चेति तत्रोत्पन्नापि कथंभावाकाङ्क्षा
स्वरूपनिष्पादनेनैव शाम्यति तद्वदित्यर्थः । तदेवोपपादयति — दविहोमेष्विति । जुहो-
व्युत्पत्तिकाः एकमन्त्रकाः स्वाहाकार प्रदाना दवहोमाः । ननु सन्निधौ व्यापाराश्रवणेऽपि
अतिरेशेन तत्प्रातिरस्तु, तह-नापोति । अतिदेशो यागीयधर्माणां ? होमीयत्र-
र्माणां वा ! नाद्य इत्याह --यागीयानामिति । तत्र हेतुमाह-य। गत्वेनेति । दर्श-
पूर्णमासज्योतिष्टोमादेरित्यर्थः । होमस्वेनेति । दर्विहोमानामिति शेषः । वैलक्षण्या-
दिति । प्रक्षेपाङ्गकोद्देशत्यागरूपक्रियाद्वयवृत्तिजातेः यागस्वात् उद्देश-त्याग-प्रक्षेपात्म-
'कक्रियात्रयवृत्ति जातेः होमत्वाच्च तयोरत्यन्तं भेदादित्यर्थः । चोदनालिङ्गातिदेशस्य साह-
श्यमूलकस्वेन तदभावे तस्यैवासंभवादिति भावः। द्वितीयं निराकरोति-नापोति ।
श्रमिहोत्रस्य न दवहोमप्रकृतित्वं, विशेषनियामकाभावान, नापि नारिष्ठहोमानाम्,
 
Research Institute