This page has not been fully proofread.

• निरूपणम् ]
 
सारविबेचिनोव्याख्यासंवलितः
 
यतु विकृतावपि प्राकृतधर्मानुवादेन विधोयमानयोधर्मयोरन्तरातेऽपूर्व
मध्यङ्गं केवलं पठ्यते तदपि प्रकरणेन विनियुज्यते । यद्यपि विकृतेः कथं•
भावाकाङ्क्षा प्राकृतैरेवाः शाम्यति, तथापि यत्र प्राकृताङ्गानुवादेन धर्मवि
धानं तत्र तद्विधानं याव (१) द्भवति तावत्कथंभावाकाङ्क्षा न निवर्तते । अतो
विकृतेराकाङ्क्षावस्वादन्तराले विहितस्याप्य पूर्वाङ्गस्य भाव्याकाङ्क्षासत्वादयुक्तं
तस्य प्रकरणाद्विकृत्यर्थत्वम्, यथा श्रामनहोमेषु । ते हि प्राकृताङ्कानुवादेन
 
प्राकृताज्ञानुवादेन विधानाभावेऽपि प्राकृताङ्ग्रानुवादेन विहितधर्ममध्ये पठित(या-
प्यपूर्वाशस्य प्रकरणग्राह्यता सम्भवतीत्याह--यत्त्विति । ननु विकृतिभावनाकथंभावा.
काङ्क्षा प्राकृतैर्धस्तदनुवादेन विहितैर्वा शाम्यतीति कथमुभयभिन्नस्यास्या पूर्वाङ्गस्य
प्रकरण विषयतेस्याशङ्कते-- यद्यपोति । उत्पन्ना ह्याकारक्षा प्राकृतसर्वाङ्गसम्बन्धानन्त-
रमेव शाम्यति, अतो मध्ये पठितस्यापि साकाङ्क्षायामेव विकृतिभावनाया मन्वयात्
सम्भवति प्रकरणग्राह्यतेति परिहरति तथापोति । यत्र प्राकृतेति । अनेन विकृति-
प्रधानप्राकृताङ्गधर्मयोर्मध्ये पठितस्याप्यपूर्वाशस्य सन्दंशेन प्रकरणमाह्यता सूचिता । आ-
मनहोमेन्विति । 'वैश्वदेवीं साङ्ग्रहणीं निर्वपेत् ग्रामकामः" इति साङ्ग्रहणेष्टिं
विधाय तदनन्तरं "श्रामनमस्यामनस्य देवा इति तिस्र आहुतीर्जुहोति" इति
बिहितेषु होमेष्वित्यर्थः। प्राकृताङ्गानुवादेन विधीयमानयोरिति । इदन्तु चिन्त्यम् ।
मैत्रायणीयसंहितायां "यत् प्रयाजानां पुरस्तात् जुहुयात् बहिरात्मानं सजाता-
नां दध्यात्, 'यदनूयाजानां परस्तात् जुहुयात् स्वर्गे लोकमपक्रामेत्, मध्ये
जुहोति" इति वाक्येन प्राकृतप्रयाजानुयाजमध्य एवामनहोमानी विधानात् । अत एव
मिश्रैरपि न्यायरत्नमालायां 'विकृतिष्वपि यत्प्राकृताङ्गमध्ये पठितं, यथा-आमन-
होमः" इति प्राकृताङ्गमध्यपाठ एवोक्तः शास्त्रदीपिकायामपि "आमनहरे मानाश्च
प्राकृताङ्गमध्यविहितत्वेने"त्युक्तम् । तन्त्ररत्नेऽपि च "प्राकृतास्तावदाकाइयैव
गृह्यन्ते । तयोर्द्वयोः प्राकृतयोः परामृश्यमानयोर्मध्ये पतितम पूर्वमध्यङ्गमा-
काङ्क्षायामव्यावृत्तायां विधीयमान श्राकाङ्क्षापरनामधेयप्रकरणेन गृह्यते, यथा-
"यत्प्रयाजानां पुरस्तात् जुहुयात् बहिरात्मानं सजातानां दध्यात्, यदनूयाजानां
परस्तात्, स्वर्ग लोकमपकामेत्, मध्ये जुहोति, मध्येत एव सजातानामात्म-
म्यत्ते" इत्येवं परामृश्यमाना आमनहोमाः सम्बन्धिपद व्यवायेनाकाङ्क्षा प्राह्य-
प्रयाजानूयाजमध्यवर्तित्वेन ग्रहीष्यन्ते इत्यनेन श्रामनोमानी प्रयाजानूयाजमध्यव
तित्वस्यैवोकत्वात् प्राकृता ज्ञानुवादेन विधीयमानघर्ममध्यपाठस्य कुत्राप्यनुपलम्भात् । ननु
तन्त्ररत्ने प्रकरण ग्राह्यत्वोक्तावपि शास्त्रदीपिकायु सन्निधिप्राह्यत्वमुक्त्वा "प्रकरणमाझ.
त्वस्यापि सम्भवात्" इत्यपिना प्रकरणाग्राह्यत्वेऽस्वरसः सूचितः । अत एव च न्याय-
सुधायां बलाबलाधिकरणे आमनोमानां सन्निधिविषयतैवोक्तंति कथं तेषां प्रकरणमा-
ह्यत्वम् ? इत्यत श्राह इत्यास्तां तावदिति । यद्यप्यामनहोमानी सन्निधिप्रायतैव
 
POONA
 
१. यावन निवर्तते ।
६ मी० म्या०
 
C
 

 
६५
 
विज्ञि
 
श्रीदप्रस्तु
 
Bhandarkar Oriental
Research Institute