This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ प्रकरण-
नङ्गत्वाद्विकृतेस्तदाकाङ्क्षाभावात् । तथा हि-ज्योतिष्टोमे दक्षिणादानसमये विहि-
तकृष्ण विषाणत्यागस्य द्विरात्रादिषु चोदकप्राप्तस्य प्रथमेऽह्नि अननुष्ठानम् ।
उत्तरेऽह्नि दक्षिणादानपूर्वकालीनैः पदाथैः कृष्णविषाण कराड्यनस्य शास्त्रवि-
हितत्वेनापेक्षितत्वात् । ज्योतिष्टोमे च दक्षिणादानोत्तरकालं पाणिकराड्यनं
दृष्टमपि द्विरात्रादिषु प्रथमेऽह्नि अनुष्ठीयमानैर्दक्षिणादानोत्तरकालीनैः पदा-
थैर्नापेक्ष्यते, तस्य प्रकृतावर्थसिद्धत्वेनाशास्त्रीयत्वादिति । एवं निर्गुणत्वस्या-
विहितत्वेन विकृतेस्तदपेक्षा नास्तीति । तस्मादुभयाका ङ्गाया असम्भवात्व
षदाज्यस्य न प्रकरण विनियोगः सम्भवतोत्यलमतिविस्तरेण ।
 
तत्सिद्धं महाप्रकरणं प्रकृतावेव विनियोजकम्। विकृतौ तु यत्प्राकृतदृष्टार्था-
ङ्गानुवादेन विधीयते तस्य विनियोजकं, न तु केवलं विधीयमानस्या पूर्वाङ्गस्येति
 
तद्वदित्यर्थः । तमेव दृष्टान्तं विशदयति-तथा होति । अत्राय माशयः- ज्योतिष्टो मे
सुत्यादिवसे माध्यन्दिने सवने ऋत्विग्भ्यो दक्षिणादानं विहितम्, अनन्तरञ्च (१) नीतासु
दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यतो'ति कण्डूयनायें दीक्षामध्ये यजमानेन स्वीकृ
तस्य कृष्णविषाणस्य त्यागो विहितः । स च द्विरात्रादिष्वहर्गणेष्वतिदिष्टः प्रथमेऽह्नि
सुत्यायां नं क्रियते । तद्यदि प्रथमेऽह्नि त्यज्यते तत उत्तरेष्वहस्सु दक्षिणादानपूर्वकालिकानां
पदार्थानां विषाणकण्डूयनं विहितं बाध्येत । न हि त्यक्तस्य पुनरुपादानं भवति, न च
पुनरुपादित्यमानस्य त्यागबुद्धिर्भवति । अतश्च ज्योतिष्टोमे दक्षिणादानोत्तरं दृष्टमपि
पाणिकण्डूयनं न द्विरात्रादावतिदिश्यते । नापि वैकृतैः पदार्थैस्तदपेक्ष्यते, प्रकृतौ दक्षि-
णादानोत्तरं विषाणाभावेन पाणिकण्डूयनस्यार्थिकत्वात्, न ह्यार्थिकं चोदकः प्रतिदिश-
तीति न्यायात् । किन्तु कृष्णविषाणसत्वात् तेनैव कण्डूयनमिति । अर्थसिद्धत्वा-
दिति । विषाणस्य व्यक्तत्वेन कण्डूतिसम्भवे पाणेरेव सन्निहितत्वेन तेनैव कण्डूयनं
प्राप्नुयादिति भावः । अशास्त्रीयत्वादिति । शास्त्राविषयत्वादित्यर्थः ॥
 
दृष्टान्तोक्तन्यायं प्रकृतेऽतिदिशति - एवमिति । तदपेक्षा निर्गुणत्वापेक्षा । पृषदा-
ज्यस्य प्रकरणग्राह्यत्वाभावनिरूपणमुपसंहरति - तस्मादिति । ननु प्रकृतावनूयाजानां
केवलाज्यविशिष्टानां कार्यजनकत्वश्रवणेऽपि विकृतौ तेषां पृषदाज्यविशिष्टानामेव कार्य-
जनकत्वश्रवणात् विशेषणसम्पत्यर्थ वैकृताकाङ्क्षायाः पृषत्तान्वयं यावदनुवर्तनात् कथं
न प्रकरण विषयतेत्यत आह-इत्यलमिति ।
 
एवं हि प्राकृतानां वैकृतोपहोमादिक्रमसापेक्षत्वेनैव प्राकृतोपकारसाघनत्वात् उपहो-
मादीनामपि प्रकरणग्राह्यत्वं प्रसज्येतेति भावः । प्राकृतदृष्टार्थाङ्गेति। श्रदृष्टार्थाज्ञानुवा
देन विहितस्याङ्गस्य उद्देश्यस्वरूपे आनर्थक्याभावात् तेनैवाकाङ्क्षाशान्तौ विकृत्य-
पूर्वपर्यन्तानुधावने प्रयोजनाभावात् उभयाकांक्षाभावेन प्रकरणमाह्यता सम्भवतीति
भावः । केवलं प्राकृतरष्टार्थाङ्गाननुवादेन ॥ वाले
 
१. गवादिरूपदक्षिणाद्रव्येषु अध्वर्थ्यादिभिर्ऋत्विग्भिः स्वस्वस्थानं प्रापितेषु सत्सु कृष्णमृगस्य
विषाणं चात्वालारव्ये गर्तविशेषे निरस्येदिति वाक्यार्थः ।
 
Bhandarkar Oriental
Research Institute
 
PHIM 16, JIFF
 
FOUNDED
 
1917