2023-02-15 04:03:31 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनीव्याख्या संवलितः
चतुर्थचरणान्ते-'न वा गुणशास्त्रत्वात्' इति
"प्राकृतस्यैवाज्यस्य चित्रतागुणमात्रविधानमिति च शास्त्रदीपिका । एवं
च विकृतेः प्राकृतेनाज्येन क्लृप्तोपकारैश्वानुयाजैर्नैराकाइये पश्चाद्विधीयमा-
नस्य चित्रतागुणस्योपहोमाद्यपूर्वाङ्गवन्न प्रकरणं विनियोजकं सम्भवति ।
यदि हि प्राकृतस्य कस्यचिद्गुणस्य स्थाने चित्रता गुणो विधोयेत तदा
स गुणो यावदायाति तावद्विकृतेर्नैकाङ्ख्याभावात् चित्रतागुणस्य च ताव-
देव विधानादुभयाकाङ्क्षासम्भवात् प्रकरणविनियोगो भवेत् । न च तादृशः
प्राकृतो गुणोऽस्ति । श्राज्यस्यानुयाजानां च चित्रतागुणात्प्रागेव विधानात्,
तस्य तत्स्थानापन्नत्वाभावात् ।
६३
न च श्राज्यपृष्ठभावेन यावत्प्राकृतं निर्गुणत्वमायाति तावदेवास्य विधा-
नात्प्रकरणसम्भव इति वाच्यम् । निर्गुणत्वस्याविहितत्वेन पाणिकराड्यनवद-
शिष्टोष्णीष विघानेऽपि प्राप्ताप्राप्त विवेचने उष्णीषस्य प्रकृतितः प्राप्तत्वेन लौहित्यमात्रे विधेः
पर्यवसानात् नैकप्रसरताभङ्गः, एवमत्रापि विशिष्टविधौ सत्यपि विशेषणमात्रे विधेस्ता-
त्पर्यात् नैकप्रसरताभङ्ग इति भावः । न वा गुणशास्त्रत्वादिति । नावाहनादिनिगमेषु
पृषदाज्यपानिति वक्तव्यम्, पृषदाज्यशब्दस्य गुणमात्रविधायकत्वादिति सूत्रार्थः । शास्त्र-
दीपिकाप्यस्मदनुक्लेत्याशयेनाह-प्राकृतेति । चित्रतागुणमात्रमिति । 'द्वयं वा
इदं सर्पिश्च दधि च' इति वाक्यशेषात् श्राज्ये दधिमिश्रणरूपं चित्रत्वमात्रं विधीयत
इत्यर्थः । नैराकाङ्क्षय इति । विकृतेरिति शेषः । विकृतौ निराकाङ्क्षीकृतायामेव पृष-
ताया विधानात् नोभयाकाङ्क्षालक्षणं प्रकरणं सम्भवतीति भावः । उपहोमाद्यपूर्वा.
ङ्गवदिति । यथा "अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपलन्निर्वपेत्, प्रजापतये
रोहिण्यै चरुं निर्वपेत्" इति विहितनक्षत्रेष्टिसन्निधौ विहितानां 'अग्नये स्वाहा कृ
त्तिकाभ्यः स्वाहा' "प्रजापतये स्वाहा रोहिण्यै स्वाहा" इत्यादयुपहोमानां
प्राकृतैः क्लृप्तोपका रैरेवाः निराकाक्षीकृतत्वाद्विकृतिभावनायाः न प्रकरण विनियोज्य-
त्वमेवं पृषत्ताया अपीत्यर्थः ॥
-
ननु – यावदाज्यपृष्ठभावेन प्राकृतो गुण आयाति तावत् पृषत्ताविधानात् कथं न
प्रकरणग्राह्यत्वमित्यत आह - यदि होति । नैराकाङ्क्षयाभावादिति । विकृत्याका-
बृक्षायाः प्राकृतचरमाङ्गान्वयं यावदनुवर्तनादिति भावः । तावदेव ततः पूर्वमेव । गु
णोऽस्तीति । प्रकृतौ कस्यापि गुणस्याज्योद्देशेनाविधानादिति भावः । ननु-प्राकृता
अनूयाजास्तत्पृष्ठभावेनाज्यं वा यावदायान्ति ततः पूर्वमेव पृषदाज्यविधिरस्तु । ततश्च
प्राकृतस्थानापन्नत्वेन सम्भवति प्रकरणग्राह्यत्वमिति मन्दाशङ्कां मन्दविषन्यायेन परिहर-
ति - श्राज्यस्येति । पृषत्तायाः प्राकृतानूयाजोद्देशेनैव विधेयत्वेन ततः पूर्व तत्प्राप्त्य
वश्यंभावेन तत्स्थानापन्नता न कदापि सम्भवतीति भावः ॥
POONA
W
ननु तथापि प्राकृतस्य निर्गुणस्य स्थाने विहितत्वात् पृषत्ताया अस्तु प्रकरणग्राह्य-
तेत्याशङ्कयाह-न चेति । अस्य पृषत्तारूपगुणस्य । अनङ्गत्वादिति । न ह्यविहितम
भवतीति न्यायादिति भावः। पाणिकण्डूयनवदिति पाणिना कण्डूयनं पाणिकण्डूयनं