2023-02-15 04:03:31 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनीव्याख्यासंवलितः
६१
एवं 'पृषदाज्येनानूयाजान् यजतीति प्राकृतानुयाजानुवादेन विधी-
त्यमानं पृषदाज्यमपि प्रकरणाद्विकृत्यङ्गमिति केचिदाचार्या: । (१) अस्मतात-
चरणास्त्वेवमाहुः- पृषदाज्यं हि अनुयाजानुवादेन विधीयते । तत्स्वरूपे
चानर्थक्यप्राप्तो तैर्न विकृत्यपूर्व लक्षयितुं युक्तं, विप्रकर्षात् ; किन्तु दीक्षणी-
यावानियमन्यायेन स्वापूर्वमेव लक्षयितुं (२)
युक्तं, सन्निकर्षात् । श्रत एवो-
त्पवनादीनां प्रोक्षणाद्यपूर्वप्रयुक्तत्वमुक्तं नवमे । मतश्च विधीयमानस्य पृष-
दाज्यस्य वाक्यप्रतिपन्नेनानुयाजापूर्वेणैव नैराकाङ्क्षयान्न प्रकरणाद्विकृत्यपूर्वा-
र्थत्वमिति । Em
-
ग्राह्यत्वं वदतां न्यायसुधाकृतां मतमनुवदति - एवमिति । उक्तं हि तैस्सन्तर्दनाधिक-
रणे – "पृषदाज्येनानूयाजान् यजतो" ति प्राकृतानुयाजानुवादेन पृषदाज्यविधा-
नात् प्राकृताङ्गग्रहणवेलायामेव पृषदाज्यग्रहणप्रतीतेः। तदानीं च नैराकाङ्दयाभावात्
प्रकरणेन पृषदाज्यं यथा गृहीतम्" इति । एवमिति । यथा प्राकृताज्ञानुवादेन विहित-
स्यौदुम्बरत्वस्य प्रकरणग्राह्यत्वं तथेत्यर्थः । अस्मत्तातचरणास्त्विति । अनन्तदेवसं
शका इति शेत्रः । तत्स्वरूपे याजस्वरूपे । नर्थक्यप्राप्ताविति । विनापि पृष
दाज्यं येन केनापि द्रव्यान्तरेण अनुयाजानुष्ठानसम्भवादिति भावः । तैः अनूयाजैः ।
विकृत्यपूर्व स्वसम्बन्धिपशुयागादिजन्यप्रधानापूर्वम् । विप्रकर्षादिति । अनूयाजज-
न्यापूर्वापेक्षया विप्रकर्षादित्यर्थः । दोक्षणोयावानिय मन्यायेनेति । "भग्नावैष्ण-
वमेकादशकपालं निर्वपेद्दीक्षिष्यमाण " इति दीक्षार्थत्वेन विहितेष्टिींक्षणीया ।
'यावत्या वाचा कामय ते तावत्या दोक्षणीयायामनुब्रूयात्' इति वाक्येन ज्योति-
ष्टोमाङ्ग भूत दी क्षणीयोद्देशेन कामस्वरो विधीयते, तस्य च दीक्षणीयास्वरूपे नर्थक्यप्र
सक्तौ दीक्षणीयापदेन दीक्षणीयाजन्यमपूर्वमेव लक्षयित्वा तदुद्देशेनैव कामस्वरविधानं,
तस्यैव सन्निकर्षात् ; न तु ज्योतिष्टोमीयपरमापूर्वी देशेन, तस्य विप्रकर्षात्, दीक्षणी-
यापूर्वार्थत्वेऽप्यानर्थक्य परिहारादित्युक्तं नवमे, तन्न्यायेनेत्यर्थः । स्वापूर्वमेव अनूया-
जजन्यापूर्वमेव । अत एव स्वरूपे नर्थक्यप्रसक्तौ तस्य सन्निहितस्वजन्यापूर्वलक्ष-
कत्वादेव । उत्पवनादोनामिति । 'उद्गग्राभ्यां पवित्राभ्यां प्रोक्षणोरुत्पुनाति'
इति वाक्यविहितस्योत्पवनस्य "शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्षति" इति
विहितपात्रप्रोक्षणस्वरूपे नर्थक्यप्रसक्ती तेषां सन्निहित प्रोक्षणजन्या पूर्वप्रयुक्तत्वमेव, न
तु विप्रकृष्टदर्शपूर्णमासापूर्वप्रयुक्तत्वमित्युक्तमित्यर्थः । नवम इति । नवमाध्यायस्थ
प्रथमे पादे द्वितीयाधिकरणे द्वितीयवर्णक इत्यर्थः । एवं च अनूयाजाथै विधीयमानस्य
पृषदाज्यस्य अनूयाजस्वरूपे नर्थक्यप्रसक्तौ अनूयाजपदेन श्रन्याजापूर्व लक्षयित्वा
तदर्थत्वमेवाङ्गीक्रियते । तेनैव च तस्य नैराकाङ्क्षयात्, न तु विकृतिप्रधानभावनया
प्रहणमिति न प्रकरणग्राह्यत्वं तस्येत्युपसंहरति — अतश्चेति । एवञ्च प्रबलेने वाक्येन
स्वविषयापहारात् दुर्बलस्य प्रकरणस्य तत्र प्रवृत्तिरेव नास्तीति न
पृषदाज्यानामिति भावः ॥
-
प्रकरर्णावनियोज्यत्वं
१ अन्ये स्वे
१२ तमविप्रक.
॥ तेजस्विनी
Bhandarkar Oriental
Research T