2023-02-15 04:03:30 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचनी व्याख्यासंवलितः
५६
प्राकृतस्य त्वङ्गस्य विकृतौ चोदकप्राप्तस्य (१) प्रत्याम्नानादर्थलोपात् प्रति-
षेधाद्वा यो बाधः स प्राप्तबाधः । यथा-प्राकृतानां कुशानां प्रतिकूलशराम्ना-
नात्, यथा वाऽवघातस्य कृष्णलेषु वैतुष्यरूपप्रयोजनलोपात्, यथा वा पि
त्र्येष्टौ होतृवरणस्य (१)'न होतारं वृणीत' इति प्रतिषेधात् । श्रौदुम्बरत्वेन
च खादिरत्वबाधः प्राप्तबाध एव वक्तव्यः, शरकुशन्यायेन । चोदकस्य च
खादिरत्वाविषयत्वे प्राप्त्यभावात्तद्नुपपत्तिः स्यादिति ।
उच्यते-तार्तीय प्रमाणविनियुक्तेनेतरस्य बाधनं तावदप्राप्तबाधनम् । प्रक-
रणं च तार्तीयम् । तेन तद्विनियुक्तौ दुम्बरत्वेनेतरस्य बाधनमप्राप्तबाध एव ।
नहि वैकृतेन प्राकृतबाधः प्राप्तबाध एवेति कुलधर्मः ।
वस्तुतस्तु प्राप्तबाध एवायम् । न च खादिरत्वस्य चोदका विषयत्वेन
एवमप्राप्तबाधं निरूप्य प्राप्तबाधस्वरूपं निरूपयितुमारभते - प्राकृतस्येति ।
प्रत्याम्नानात् विरुद्धपदार्थाम्नानात् । अर्थलोपात् अर्थस्य प्राकृतस्य प्रयोजनस्य
लोपात् । प्रतिषेधात् न कुर्यादिति शब्दतो वारणात् । प्राकृतानां कुशानामिति । प्रकृतौ
दर्शपूर्णमासयोः 'कौशं बर्हि' रित्यनेन विहितानामित्यर्थः । प्रतिकूलेति । "रौद्रीं
रोहिणीमाल भेताभिचरन्" इति वाक्यविहिताभिचारेष्टौ "शरमयं बर्हिः" इत्यनेन
बहिःकार्ये शराणां विधानादित्यर्थः । कृष्णलेब्विति। "प्राजापत्यं घृते चरुं निर्व-
पेत् शतकृष्णलमायुष्कामः" इति विहितायुष्कामेष्टयङ्गभूतेष्वित्यर्थः । प्रयोजनलो-
पादिति । कृष्णलानां स्वर्णखण्डरूपतया तत्र वैतुष्यस्यासम्भवादिति भावः । पित्र्ये-
ष्टाविति । महापितृयज्ञ इत्यर्थः । होतृवरणस्येति । अस्याश्च दर्शपूर्णमासविकृति-
स्वेन ततो ऽतिदेशतः प्राप्तस्य होतृवरणस्येत्यर्थः । शरकुशन्यायेनेति । प्राकृतानां
कुशानां वैकृतैश्शरैर्बाधो यथा प्राप्तबाधः, एवं प्राकृतस्य खादिरत्वस्य बाधः प्राप्तबाघ
एव वक्तव्यः । एवं च यदि न चोदकः खादिरत्वं विषयीकरोति तदा खादिरत्वस्याप्राप्त
त्वादेव कथं तत्र प्राप्तबाघव्यवहारः सङ्गच्छेतेत्याह-चोदकस्येति । अनुपपत्तिस्स्या.
दिति । एवञ्च "श्रौदुम्बरो यूपो भवति" इत्यस्य प्राप्तबाधत्व सिद्धये चोदकस्य खादिरत्व.
विषयकत्वमवश्यं वक्तयं भवतीति भावः । तद्विनियुक्तेति । प्रकरण विनियुक्तेत्यर्थः ।
इतरस्य खादिरत्वस्य स्थानप्रमाणविनियुक्तस्य । ननु वैकृतेन प्राकृतबाधस्य प्राप्तबाघ-
वाङ्गीकरणात् कथं सोऽप्राप्तबाघो भवेत् ? अत आह— नहीति ।
नन्वेवं सति यत्र प्रत्याम्नानात् प्रतिषेधाद्वा बाघः तत्रावश्यं प्रकरण विनियोज्यत्व
सम्भवेन प्राप्तबाघत्वापत्तौ तस्य तृतीये निरूपणीयत्वेन दशमे निरूपणानुपरत्तिः ।
नवास्य प्राधान्येन अध्यायार्थत्वा भावेऽपि हवनीयादिबाघस्येव प्रसङ्गान्निरूपणमिति वा
च्यम् । तथात्वे प्राप्तबावस्य त्रैविध्यकथनानुपपत्तेः, इत्यत । ग्राह-वस्तुतस्त्विति । ननु
खादिरत्वस्य चोदकविषयत्वमङ्गीक्रियते ! न वा ? अन्त्ये तस्य प्राप्त्यभावेन कथं तस्य
बाघः प्राप्तबाधो भवेत् ? करणे वा तेनैव यूपस्य नैराकांदयात् कथमोदुम्बर त्वरय
प्रकरणग्राह्यत्वम् ? इत्याशङ्कयाह-नचेति । तद्विषयत्वे चोदकविषयत्वे । तेनैव
२. प्रतिकूलाम्नानात्, इति, ख