This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ प्रकरण-
योजनयूपपृष्ठभावेन यावत्खादिरत्वमायाति तावद्विधीयन्ते इति युक्तं तेषां
प्रकरणाग्रहणम्, उभयाकाङ्क्षासत्त्वात् । यदि हि यूपपृष्ठभावेन खादिरत्वं
विहितं स्यात्, ततो विकृतेरा का ङ्क्षाभावा दौदुम्बरत्वं न प्रकरणग्राह्यं स्यात् ।
न चैतदस्ति । चोदकस्य खादिरत्वाविषयत्वात् ।
 
ननु- यदि यावत्खादिरत्वमायाति तावदेवौदुम्बरत्वं विधीयते, तदा तेन
खादिरत्वबाधोऽप्राप्तबाधः स्यात्, तार्तीयबाधवत् । तथाहि-बाधो द्विविधः-
अप्राप्तबाधः प्राप्तबाधश्चेति । तत्र तार्तीयो बाधोऽप्राप्तबाधः । तत्र हि यावत्
दुर्बलेन (१) प्रमाणेन विनियोगः कर्तुमारभ्यते तावदेव प्रबलप्रमाणेन विनि-
योगः क्रियते इति तद्बोधितेनेतरबाघोऽप्राप्तबाघः, दुर्बलप्रमाणस्या प्रवृत्तत्वात् ।
स्वस्याः फलजनकत्वनिर्वाहार्थं प्राकृतानुपकारान् तत्पृष्ठभावेन च क्लृप्तोपकारान् प्राकृतान्
पदार्थाना का क्षति, श्राकांक्षा च पदार्थान्वयं यावदनुवर्तत इत्युक्तम् । एवं च प्रथमतः
पशुनियोजनं, तत्पृष्ठभावेन च यूपोऽतिदिश्यते; तरपृष्ठभावेन च प्राकृतं खादिरत्वं याव.
दायाति, ततः पूर्वमेवौदुम्बरत्वस्य विधानात् भवति तस्य प्रकरणग्राह्यता । उपहोमादीनां
तु निवृत्ताकांक्षायामेव विकृतिभावनायां विधानात् न तत्रोभयाकांक्षाऽस्तीति न तेषां
प्रकरणग्राह्यत्वमिति । ननु प्रकृतिवद्विकृतिः कर्तव्येत्यतिदेशशास्त्रेण पशुनियोजनादीना-
मिव खादिरत्वस्यापि विकृतौ प्रापितत्वेन तेनैवाकांक्षायाः शान्तत्वात् कथमौदुम्बरत्वस्य
प्रकरणग्राह्यत्वम् ? इत्याशङ्कां निराकरोति-यदि हीति । खादिरत्वाविषयत्वादिति ।
एवं च खादिरत्वस्यातिदेशवाक्येनासंस्पर्शात् विकृतौ विध्यभावेन
युक्तमौदुम्बरत्वस्य प्रकरणग्राह्यत्वमिति भावः ॥
 
५८
 
निवृत्
 

 
खादिरत्वस्य चोदकाविषयत्वे तद्वाघस्याप्राप्तबाधत्वं शङ्कते-नन्विति । तार्तीयबा-
धवदिति । तृतीयाध्य यगोचरो बाघो यथा अप्राप्तबाधः तद्वदित्यर्थः । तत्र तयोर्मध्ये ।
कथं तार्तीयबावस्याप्राप्तबावत्वम् ? ता-तत्र हीति । विनियोग इति । पूर्व-
पूर्वप्रमाण कल्पनद्वारेति शेषः । तद्बोधितेन प्रबलप्रमाणबोधितेन पदार्थेन । इतरबाधः
दुर्बलप्रमाणबोधितस्य पदार्थस्य बाघः । श्रप्राप्तबाध इति । दुर्बलप्रमाणबोधितस्य
विनियोगदशामप्राप्तस्यैव बाघात् श्रप्राप्तबाघ इति व्यवहार इति भावः । कथमप्राप्तता !
अत श्राह-दुर्बलेति । EPED TORRE I BIC PHUEENSE FIRis
"निःश्रेण्यारोहणप्राप्यं प्राप्तिमात्रोपपादि च ।
एकमेव फलं प्राप्तुमुभावारोहतो यदा ॥
एकस्सोपानपङ्क्तिस्थो भूमि स्थश्चापरस्तयोः ॥
उभयोश्च जवस्तुल्यः प्रतिबन्धश्च नान्तरा
॥167
विरोधिनोस्तदैको हि तत्फलं प्राप्नुयात्तयोः ।!
प्रथमेन गृहीतेऽस्मिन् पश्चिमोऽवतरेन्मुधा ॥"
इत्यनेन प्रकारेण स्वरूपतः सत एवोत्तरोत्तरस्य स्वस्वविषयविनियोगे आकांक्षारूप-
कल्पनामूलोच्छेदात् श्रुतिकल्पना प्रतिबन्धेन अलब्धप्रमाणभावस्यैव बाघनादिति भावः ॥
१. प्रमाणेन इति नास्ति क. पु.
 
FOUNDED
 
o
 
A
 
POONA
 
ores of