This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
५७
 
कथंभावाकाङ्क्षा । सा च तदा शाम्यति यदोपकारास्तत्पृष्ठभावेन च पदार्था
अन्वीयन्ते । (१)न तूपकारमात्रान्वयेन शाम्यति । अतश्च यथेन्द्रियभावनायाः
करणाकाङ्क्षा दघ्नः करणत्वेनान्वये जाते सिद्धस्य करणत्वानुपपत्या होम-
स्याश्रयत्वेनान्वयं यावदनुवर्तते, न तु ध्यन्वयमात्रेण निवर्तते; श्राश्रयत्वेन
च गृह्यमाणो होमः करणाका क्षयैव गृह्यत इत्युच्यते, न त्वाश्रयाकांक्षा नाम
चतुर्थ्यस्ति, एवं विकृतेः कथंभावाकाङ्क्षा नोपकारान्वयमात्रेण निवर्तते;
उपकारपृष्टभावेन यावत्पदार्थान्वयमनुवर्तते । अतश्चोपकारपृष्ठभावेन गृह्य-
माणाः पदार्थाः कथंभावाकाङ्क्षयैव गृह्यन्ते । तत्र प्राकृताः पदार्थाः कथंभा-
वाकाङ्ङ्क्षया गृह्यमाणा अपि न प्रकरणग्राह्याः, प्रकृत्युपकारकतया तेषामाका-
इङ्क्षाभावात् । श्रौदुम्बरत्वादयस्तु अन्यानुपकारकतया साकाङ्क्षाः पशुनि-
विकृत्याकांक्षायाः प्राकृताजैरेव शान्तत्वादुमयाकाङ्क्षाभावेन कथमौदुम्बरत्वान्वयदशायां
विकृतेराकाङ्क्षावत्वं इत्यताह-सा च तदेति । उपकाराः प्राकृतोपकाराः। पदार्थाः प्राकृ
ताः पदार्थाः। दृष्टान्तमाह-यथेति । इन्द्रियभावनाया: 'दध्नेन्द्रियकामस्य जुहुया" दिति
वाक्यविहितायाः इन्द्रियभाव्यकभावनायाः । करणाकांक्षेति ! अनुवर्तत इत्यत्रान्वेति ।
सिद्धस्येति । शिक्यस्थदध्नः व्यापारसंबन्धमन्तरा फलसाघनत्वासंभवेनेत्यर्थः । होम-
स्येति । प्रकरण प्राप्तस्येति शेषः । श्राश्रयत्वेनेति । अन्वयं यावदिति । अन्वयपर्यन्त-
मित्यर्थः । अयमाशयः - न तावत् दध्नस्सिद्धस्य करणत्वं संभवति । तथात्वे व्यापार-
सम्बन्धं विना शिक्यस्थेनापि दघ्ना फलोत्पत्तिप्रसक्तौ विधिवैयर्थ्यापातात् । अतस्तपरिहा-
रार्थ दृष्टविधया स्वसाध्यव्यापारमपेक्षमाणो दधिरूपो गुणः स्वसाध्यभोजनहोमाद्यनेक-
व्यापारसम्बन्धस्यानियमेन प्राप्तौ तवाधित्वा प्रकरणेन होमस्यैव समर्पणात् तस्यैव चाश्रय-
त्वेन सम्बन्धात् तावतैव च शान्ताकाञ्चो भवतीति । ननु सत्यामाश्रयाकाङक्षायां श्रा-
श्रयत्वेन होमस्यान्वयो युज्येत । न तादृशी काचिदाकाङ्क्षाऽस्ति । भावनाया अंशत्रय-
मात्रताकांक्षत्वात् । अतः कथमाश्रयत्वेनान्वय इत्यत आह - आश्रयत्वेनेति । नवि-
ति। "शक्यतेत्वत्र न चतुर्थ्यपेक्षाऽस्तीति वक्तुम् । करणापेक्षैव होषा
प्रविततरा जाता" इति वार्तिकोत्तरिति भावः । दान्तिके प्रकारमिममतिदिशति-ए-
वमिति । उपकारान्वयमात्रेणेति । उपकारस्य पदार्थजन्यत्वात् पदार्थानतिदेशे उप
कारातिदेशस्यापि वैफल्यात् तत्सार्थक्याय तज्जनकपदार्थान्वयपर्यन्तमनुवर्तते एवाकांक्षेति
भावः । कथंभावाकाक्षया पदार्थानां ग्रहणेऽपि प्राकृतानां प्रकरणग्राह्यखशङ्कां निवार-
यति — तत्रेति । हेतुमाह - तेषामिति । प्राकृताङ्गान/मित्यर्थः । श्रीकांक्षाभावा-
दिति । सकृदनुष्ठानेनैव शास्त्रचारितार्थ्यादिति भावः । श्रदुम्बरत्वादीनां परं कथं प्र-
करणग्राह्यता ? अता- श्रौदुम्बरत्वादय स्त्विति । अन्यानुपकारका इति ।
तेषां विकृतिसन्निधावपूर्वतयैव पाठदद्य यावत्तैः कुत्राप्युपकाराजननादिति भावः । ननु
विकृतिसन्निधौ पठितानामुपहोमादीनामन्यानुपकारकतया साकाङ्ङ्क्षत्वेन तेषामपि प्रकरण-
विषयत्वं स्यादित्यत ग्राह-पशुनियोजनेति । अयमभिसन्धिः-विकृतिभावना तावत्
 
-
 

 
FOUNDED
 
तस्बिर
 
१. न तूपकारमात्रेय. ख. पु.
 
137IRS IIMSR
 
छ मो० न्या०
 
-