This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचनी व्याख्यासंवलितः
 
५५
 
ननु प्राकृताना मङ्गानामाकाङ्क्षाभावे तेषां विकृतौ संबन्धः केवलं स्थाना-
त् स्यात्: अपूर्वाणां त्वाकाङ्क्षासत्त्वाद्विकृतेरण्याकाङ्क्षावत्त्वात् तेषां तत्स-
म्वन्धः प्रकरणात्स्यात्, प्रकरणं च स्थानात झटिति विनियोजकमित्यपूर्वा
गामेव प्रथमसम्बन्धः स्थात्, न प्राकृतानामिति ।
 
(१) अत्रोच्यते — सत्यं प्रकरणं झटिति विनियोजकम् । तथापि प्रमाणब-
लावलात्प्रमेयबलाबलस्य ज्यायस्त्वादुक्तविधयोपस्थितानां प्राकृतानामेव सम्ब-
न्धो युक्तर(२) स्यात्, कऌप्तोपकारत्वात्, न वैकृतानां, कल्प्योपकारत्वात् ।
विकृतेश्चोपकारक पदार्थाकाङ्क्षा, न पदार्थमात्राणामिति युक्तः प्रथमं प्राकृता-
ङ्गसम्बन्धः । ततश्च न विकृतौ प्रकरणं विनियोजकम् ॥
 
यत्त विकृतौ प्राकृताङ्गानुवादेन विधोयते-यथा 'मौदुम्बरो यूपो भवति'
इति यूपानुवादेन ओदुम्बरत्वम्, तत्प्रकरणाद्गृह्यते ।
 
ननु न तत्प्रकरणाद्गृह्यते अक्रियात्वात् । क्रियाया एव प्रकरणग्राह्यत्वा-
दिति चेत्-सत्यम् । तथापि तु तावद्विधीयमानस्यौदुम्बरत्वस्यास्त्येवाकाङ्क्षा
तेनैवाकाङ्क्षोपरमात् प्राकृताङ्गग्रहणमेव न स्यादिति शङ्कते–नन्विति ॥
 
आशङ्कां निराकरोति — अत्रोच्यत इति । प्रमाणबलाबलादिति । निरूपितमेत-
दघस्ताल्लिङ्ग निरूपणावसरे । एवं च प्रमाणस्वरूपपर्यालोचनायां यद्यपि स्थानापेक्षया
प्रकरणं प्रबलं, तथापि प्रमेयस्वरूपपर्यालोचनायां प्राकृतानामङ्गानां क्लृप्तोपकारकत्वेन
स्वतः प्राबल्यात् तेषामेव प्रथमं सम्बन्धो युक्त इति भावः । ननु नात्र क्लृप्तोपकारक-
त्वेन कल्प्योपकारकत्वेन वा प्रयोजनम् ; किन्तु विकृतिः पदार्थान् परमाकाङ्क्षति । श्रा-
काङ्क्षा च सन्निहितैरेव शाम्यतीति कथं प्राकृताङ्गसम्बन्धः ? इत्यत ग्राह-विकृते-
रिति । न पदार्थमात्राणमिति । स्यादेवं यदि पदार्थत्वरूपेण पदार्थानामाकाङ्क्षा,
न त्वेतदस्ति; किन्तु उपकारजनकरवेन, तच्च प्राकृतानामेव पूर्व प्रकृतौ कृतकार्यतया
क्लृप्त मिति तेषामेव प्रथमं सम्बन्ध इत्यर्थः । विकृतौ प्रकरणस्याविनियोजकत्वमुपसंह-
रति--ततश्चेति ॥ RMSAbhine
 
न सर्वथा विकृतौ न प्रकरणं विनियोजकं, किन्तु विकृतावपि यत् प्राकृताङ्गानुवादेन
विधीयते तदपि प्रकरणेन गृह्यत इत्याह -- यस्विति । एवञ्च प्रकृतौ, प्राकृताङ्गानुवादेन
विहिताङ्गविषये विकृतौ च प्रकरणं विनियोजकं भवतीति सिद्धम् । श्रौदुम्बरो यूपो
भवतीति । श्रौदुम्बर उदुम्बरवृक्षीयकाष्ठनिर्मितः । "सोमापौष्णं त्रैतमालभेत पशु-
कामः" इति वाक्यविहितकाम्यपशुयागसन्निधौ श्रुतमिदम् ।
 
पूर्वोक्तं द्रव्यादेः प्रकरणग्राह्यत्वाभावं मनसि निधाय शङ्कते- नन्विति । अस्त्येवा-
काङ्क्षेति। प्रकरणग्रहणं तूझ्याकाङ्क्षानिबन्धनम्। तच्चात्रास्ति । श्रौदुम्ब्ररत्वस्याकृता-
थंत्वात् । तच्च नापलपितुं शक्यम् । यदितु तस्य द्रव्यरूपत्वं, तर्हि क्रियाद्वारं प्रहणं भवि-
ब्यतीत्यर्थः ।ननु यत्र धर्माणां स्वरूपार्थतायामानर्थक्यं तत्रैव प्रधानापूर्वपर्यन्तानुधावनं,
यत्र तु स्वरूपे नानर्थक्यं तत्र तदर्थत्वेनोपपत्तौ तावतैव च नैराकांदयात् प्रधानापूर्व पर्य
१. उच्यते । ख. पु. २. स्यात् इति नास्ति ख. पुस्तके।
 
kar Oriental
Research Institute