This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यांसंवलितः
 
तत्सिद्धं प्रकरणं क्रियाया एव विनियोजकमिति । स्था
 
तच्च प्रकरणं द्विविधम्-महाप्रकरणमवान्तरप्रकरणं चेति । तत्र फलभा-
वनायाः प्रकरणं महाप्रकरणम् । तच्च प्रयाजादीनां ग्राहकम् । तच्च प्रकृता-
वेव । यत्र समग्राङ्गोपदेशः सा प्रकृतिः, यथा- दर्शपूर्णमासादिः । तत्र चोभ-
याकाङ्क्षारूपं प्रकरणं संभवति, श्राकाङ्क्षानुपरमात्
 
५३
 
विकृतौ तु न प्रकरणं सम्भवति । यत्र न समग्राङ्गोपदेशः सा विकृतिः,
यथा सौर्यादिः । तत्र च यान्यपूर्वाण्यङ्गानि पठ्यन्ते उपहोमादीनि तेषां न
प्रकरणं विनियोजकम् । तत्र यद्यपि तेषां किंभावयेदित्यस्त्याकाङ्क्षा, तथापि
प्रधानस्य न कथंभावाकाङ्क्षास्ति, प्राकृतैरेवाङ्गैनिराकाङ्क्षत्वात् । न च प्राकृता-
नामङ्गानामन्त्रापठितत्वेनाप्रत्यक्षत्वाद्वैकृतानां तु पठितत्वन प्रत्यक्षत्वात्तैरेवाका-
झोपशम इति वाच्यम् । तेषां पठितत्वेऽपि अक्ल झोपकारत्वेन झटित्याकाहो-
पशमनेऽसामार्थ्यात्, प्राकृतानां तु क्लृप्तोपकारत्वेन तच्छुमने सामर्थ्यात् ।
 
9
 
ग्राहकत्वेन गृह्यते । नैवं द्रव्यम" 'द्रव्यस्य अक्रियात्मकत्वात् प्रकरणाग्रह-
गाभिधानार्थम्' इत्यादिभाष्यवार्तिकन्यायसुधादिस्वरसादित्यर्थः । भूयोनुग्रह स्यैव
न्याय्यत्वादिति भावः ॥
 
घा
 
प्रकरणमिदानीं विभजते- तच्चेति । तत्र महाप्रकरणावान्तरप्रकरणयोर्मध्ये ।
आकाङ्क्षानुपरमादिति । प्रधानकथम्भावाकाङ्क्षायाः प्रयाजाद्यन्वयमन्तरा प्रशान्तेः
प्रयाजीयोपकार्याकाङ्क्षायाश्च प्रधानसम्बन्धमन्तश प्रशान्तत्वाञ्चेत्यर्थः ।
 
4
 
यत्रेति । सौर्यादिरिति। "सौयं चरुं निर्वपेद्ब्रह्मवर्चसकाम" इति विहितेष्टि-
स्सौर्येष्टिः। यत्र च भावनापेक्षिताङ्ग पौष्कल्यं विधायकवाक्याम्नानं सा विकृतिरित्यर्थः ।
पूर्वाणि अप्राकृतानि । विकृतिसन्निवावेवापूर्वतया विहितानीति यावत् । अत्र - प्रकृति-
पदार्थमाह - यत्रेति । समग्राङ्गोपदेश इति । अपेक्षितयावदशवाक्याम्नानमित्यर्थः ।
ननु विकृतावपि प्रधानस्योपकारकाकाङ्क्षासत्वात् श्रृङ्गानां चोपकार्याकाङ्क्षासत्वात् श्रस्तु
परस्पराकाङ्क्षया ऽङ्गत्वं इत्यत आह - तत्र यद्यपोति । तेषां वैकृताङ्गानाम् । न कथ-
म्भावाकांक्षास्तीति। वैकृताकाङ्क्षान्वयदशायामिति शेषः। तर्ह्यत्पन्ना वैकृती आकाङ्क्षा
केन शाम्यति ? तदाह - प्राकृतैरेवेति । एवं च प्रथमतः प्राकृताङ्गविषयिण्या एवा-
काङ्क्षाया उत्थानात् तदन्वये च त्राकाङ्क्षायाः शान्तत्वात् अपूर्वाङ्गान्वयदशायां कुतः
प्रधानाकाङ्क्षति भावः । ननु वैकृतानां सन्निहितत्वेन प्रत्यक्ष श्रुतत्वेन च प्रथमं तेषामेवा-
न्वयोऽस्तु, तावतैव चाकाङ्क्षाऽपि शाम्यतु, किमर्थमप्रत्यक्षाणामनुपस्थितानां च प्राकृ·
तानामज्ञानां नैराकाड् क्ष्यसंपादकत्वं इत्याशङ्कयाह – न चेति । अक्लृप्तोपकारक-
त्वेनेति । अद्ययावदेतेषामनुष्ठानाभावेन एतावताप्येतदीयोपकारस्य कुत्राप्यसिद्धेरित्य.
र्थः । एवं च न पाठमात्रमा काङ्क्षाशामकत्वप्रयोजकम्; किन्तु येषामुपकारजनन सामर्थ्य
पूर्वमेव क्लृप्तं तेषामेवाकाङ्क्षाशामकंता । तच्च प्राकृतानामेवेति न वैकृतैराकाङ्क्षाशान्ति-
C
 
रिति भावः ।
 
-