2023-02-15 04:03:29 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनोव्याख्यासंवलितः
यागो भावार्थाधिकरणन्यायेन करणतयान्वेति-यागेन स्वर्गं भावयेदिति । तत्र
कथमिति (१)
कथंभावाकाङ्क्षा जायते । तस्यां चाकाङ्क्षायां यत्संनिधौ पठितमध्य-
माणफलकं च क्रियाजातं तदेवोपकार्याकाङ्क्षा (२) यामितिकर्तव्यतात्वेनान्वय-
मनुभवितुं योग्यं, क्रियाया एव लोके कथंभावाकाङ्क्षा या मन्वयदर्शनात् । न हि
कुठारेण छिन्द्यात्कथमित्याकाङ्क्षायां हस्त इति केवलमुब्बार्यमाणोऽपि हस्तो-
ऽन्वयं प्राप्नोति । किं तहिं ? हस्तेनोद्यम्य निपात्येत्युच्चार्यमाणे उद्यमननि-
पातने एव । (३) हस्तोऽपि तद्वारेणैवान्वयं प्राप्नीतीति सार्वजनीनमेतत् ।
किं च कथंभावाकाङ्क्षा नाम करणगतप्रकाराकाङ्क्षा । (४) थमोः प्रकारवा
चित्वात् । सामान्यस्य भेदको विशेषः प्रकारः । सामान्यं च क्रियारूपमेवाख्या-
तेनोच्यते । 'यजेत स्वर्गकाम' इत्यस्य ह्ययमर्थ:- यागेन तथा कर्तव्यं यथा
स्वर्गो भवतीति । क्रियासामान्यस्य च विशेषः क्रियैव भवति। न हि ब्राह्मण-
विशेषः परिव्राजकादिरब्राह्मणो भवति । एवं च करणगतक्रियाविशेषाकाङ्क्षा
परनामधेयकथंभावाकाङ्क्षायां क्रियैवान्वेतीति युक्तम् । स च करणगतः क्रिया-
विशेषोऽन्वाधानादिब्राह्मणतर्पणान्तः क्रियारूप एवेति युक्तं तस्य प्रकरणेन ग्रह-
णम् । (५) तस्य च करणगतत्वं तदुपकारकत्वमेव, तेन विना यागेनापूर्वाजौ
ननात् । न ह्युद्यमननिपातन(६)व्यतिरेकेण कुठारेण द्वैधीभावो जन्यते । तत्सि-
द्धं कथंभावाकाङ्क्षायां क्रियैवान्वेतीति ।
अत एव द्रव्यदेवतयोर्यागसंपादनद्वारान्वयः साम्प्रदायिकैरुक्तः । विकृतौ
घस्तात् । समानपदोपात्त इति हेतुगर्भविशेषणम् । सिद्धस्य वस्तुनः साक्षादितिकर्त-
व्यतात्वेनान्वयाभावं दर्शयति-न होति । केवलमिति । क्रियापदोच्चारणं विनेत्यर्थः ।
सार्वजनीनमिति। सर्वजनप्रसिद्धोऽयं व्यवहारो नात्रविशेषतो वक्तव्य मस्तीत्यर्थः ।
किञ्च कथम्भावाकाङ्क्षा स्वरूप विवेचनेनाप्यय मेवार्थस्सिध्यतीत्याह- किञ्चेति । प्र
कारवाचित्वादिति । 'प्रकारवचने थाल' इति सूत्रात् प्रकारवचन इत्यनुवृत्य 'किम-
श्वेति सूत्रेण किंशब्दात् थमो विधानादिति भावः । श्रख्यातेनोच्यत इति । "दर्श-
पूर्णमासाभ्यां स्वर्गकामी यजेत" इति वाक्येन तत्तद्वयापाराणामेव सामान्यतो भाव-
नात्वेनोकत्वादिति भावः । श्राख्यातस्य तत्तदुत्पत्यनुकूलव्यापारसामान्य वाचित्वमेवो-
पपादयितुमारभते – यजेतेत्यादिना । अन्वाधानादीति । श्रन्वाधानं दर्शपूर्णमास
योरादौ "ममाग्नेवचः" इत्यादिभिर्मन्त्रैराहवनीयादिष्वग्निषु काष्ठाधानम् । ब्राह्मण-
तर्पणं भोजनादिना ऋत्विजां प्रीतिसंपादनम् । करणगतः यागादिरूपधात्वर्थगतः
ननु धात्वर्थस्यैव भावनाकरणत्वात् तस्य च क्रियारूपत्वेन कथं तद्गतत्वमन्वाधानादी-
नाम् ! श्रत ग्राह- तस्य चेति । करणापेक्षितोपकारजनकत्वमेव करणगतत्वं, न तु
तन्निष्ठत्वम् । अतो न दोष इति भावः ।
-
।
अत एव क्रियाया एव कथंभावाकांक्षायामन्वयादेव। यागसंपादनद्वारेति ।
यागस्वरूपनिष्पादनस्य क्रियात्वेन तद्वाराऽन्वयो द्रव्यदेवतयोंः सिद्धयोरपि सम्भवतीति
५. ततश्च.
Bhandarkar Oriental
Research
१. कथम्भावाकाङ्क्षायां इति. क. पु. २. कांक्षया, ३. इस्ताद्यपि, ४. थमुनः,
६. व्यतिरेके उद्यमननिपातने एव हस्तादिद्वारेणा न्वयं प्राप्नुतःnsteine