This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[प्रकर
 
५०
 
न स्वतन्त्र फलार्थत्वमिति । तदुक्तम्-
'द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्' इति ।
 
अत्र द्रव्ये फलश्रुतिः (१) "यस्य पर्णमयो जुहूर्भवति न स पापश्श्लोकर
शृणोति" इत्येवमाद्या । संस्कारे फलश्रुतिः "यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य
वृङ्ते' इत्येवमाद्या । कर्मणि फलश्रुतिः 'वर्म वा एतद्यज्ञस्य क्रियते यत्प्रया-
जानूयाजा इज्यन्ते' इत्याद्या । कर्मपदं चारादुपकारककर्मपरं द्रष्टव्यम्, संस्का-
रकर्मणः पृथक्संकीर्तनादित्यास्तां तावत् ॥
 
( प्रकरणस्य क्रियैकबिषयत्वनिरूपणम् )
 
तदिदं प्रकरणं क्रियाया एव विनियोजकम्, न द्रव्यगुणयोः । तयोस्तु
क्रियायोगाद्विनियोजकम् । कुत इति चेत् ? शृणु-'यजेत स्वर्गकाम' इत्यत्रा-
ख्यातांशेनार्थी भावनाभिधीयते - भावयेदिति । सा चांशत्रयमपेक्षते-किं भाव-
येत्, केन भावयेत् ; कथं भावयेदिति । तत्र भाव्याकाङ्क्षायां षष्ठाद्यन्यायेन
स्वर्गो भाव्यतयान्वेति-स्वगं भावयेदिति । करणाकाङ्क्षायां समानपदोपात्तो
प्रकरणप्राबल्यनिरूपणावसरे इति शेषः । प्रयाजादीनां स्वतन्त्रफलार्थत्वाभावे चातुर्थिकं
सूत्रं प्रमाणयति — द्रव्य संस्कारेति । यस्य पर्णमयीत्यादौ द्रव्ये, यदाक्त इत्यादौ
संस्कारे, यत्प्रयाजानूयाजाः इत्यादावर्थ कर्मणि च फलश्रवणं अर्थवादस्स्यात् ।
तेषां क्रत्वर्थत्वादिति सूत्रार्थः । प्रत्येकमुदाहरति-द्रव्येति । अनारभ्यवादोऽयं यस्येति ।
यस्य यजमानस्य यज्ञे दर्शपूर्णमासादौ जूहूः पलाशवृक्षीयकाष्ठनिर्मिता (जुहूः होमसा-
धनद्रव्यधारणार्थः पात्रविशेषः ) भवेत् स यजमानः पापं श्लोकं अपकीर्ति कदापि न
शृणुयात्, इति, यजमानः स्वे चक्षुषी अञ्जनेनाऽऽब्ते यस्मात्,
तेन शत्रोनेंत्रमावृणोति
(शत्रुरन्धो भवेत् इति यावत् ) इति, दर्शपूर्णमासयोः प्रयाजा अनूयाजाश्चाऽनुष्ठीयन्त
इति यत् तेन यज्ञस्य यजमानस्य च कवचेनाऽऽवरणं कृतं भवति इति च वाक्यत्रयस्य
क्रमशोऽर्थाः । ज्योतिष्टोमे दीक्षामध्ये श्रुतं यदाङक्त इति । दर्शपूर्णमासप्रकरणे प्रया-
जसन्निधौ वर्मेत्यादि । अत्र सर्वत्राप्याद्यपदेन क्रमात् 'यस्य वैकङ्कती ध्रुवा भवति
प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रैव जायते' । 'यन्नवनीतेनाभ्यङ्क्ते सर्वा एव
देवताः प्रीणाति' । 'यदाज्यभागौ यजति चक्षुषी एव तद्यज्ञस्य प्रतिद्धाति
इत्यादयो ग्राह्याः । सूत्रस्थकर्मपदस्यार्थमाह- कर्मपदमिति । पृथगिति । संस्कारप
देन ग्रहणादित्यर्थः ॥ विजण निग
 
VALE
 
( प्रकरणस्य क्रियैकविषयत्वनिरूपणम्)
 
FOUNDED
 
एवं प्रकरणं निरूप्य तस्य इतरप्रमाणेभ्यो व्यावृत्तं विशेषमाह
- तदिदमिति ।
किं सर्वथा द्रव्यगुणाविनियोजकत्वम् ! नेत्याह—तयोरिति । प्रथमतः प्रेक्षावतः पुरु
षस्य फल विषयिण्येवाकाङ्क्षा, अनन्तरं तत्साधने, अनन्तरं च तत्प्रकारविशेष इति
तेनैव क्रमेण आकांक्षामुपपादयति - किमिति । षष्ठाद्यन्यायेनेति । उपपादितमेतद
10वी
 
-
 
१. यस्य पर्णमयी जुहूर्भवतीत्येवमाया ख. पु.