2023-02-15 04:03:28 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनोव्याख्यासंवलितः
प्रकरणस्थेन वाक्येनोपसंहारात् । उपसंहारो नाम सामान्यप्राप्तस्य विशेषे
नियमनम् । यथाहुः
सामान्यविधिर स्पष्टस्संहियेत विशेषतः । इति ॥
तत्रानारभ्यविधिः सामान्यविधिः, मित्रविन्दादिप्रकरणस्थस्तु विशेषवि
धिरित्यास्तां तावत् । प्रकृतमनुसरामः । तत्सिद्धं वाक्यादङ्गत्वम् ॥
वाक्यस्य प्रकरणादितः प्राबल्यनिरूपणम् )
89
तदिदं वाक्यं प्रकरणाद्वलीयः, प्रकरणं हि न साक्षाद्विनियोजकम्, तद्धि
कारूपम् । न चाकाङ्क्षा स्वयं प्रमाणं, किन्तु साकाङ्क्षं वाक्यं प्रकरणस्व-
रूपं (१)दृष्ट्वा भवत्येतादृशी मतिः-नूनमिदं वाक्यं केनचिद्वाक्येनैकवाक्यभूत-
मिति । ततश्चाकाङ्क्षारूपं प्रकरणं वाक्यस्य वाक्यान्तरेकवाक्यत्वे प्रमाणम् ।
एवं च यावत्प्रकरणं वाक्यं कल्पयित्वा विनियोजकं भवति तावद्वाक्यं लिङ्ग-
श्रुती कल्पयित्वा विनियोजकं भवतीति प्रकरणाद्वाक्यं बलीयः ।
अत एव "इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽकाता"
क्येन क्रतुसम्बन्धो बोध्यते । अतश्च प्राकरणिकं वाक्यं झाटति क्रतुसम्बन्धबोधकं सत्
अनारभ्यवाक्येऽविशेषेण सर्वविकृतिसम्बन्धकल्पनां निरुन्धदुपसंहारकमिति भावः । न-
चैकेनैव प्राकरणिकेन वाक्येनोभयोपपत्तौ अनारभ्यवाक्यं व्यर्थमिति वाच्यम् । ज्योतिष्टो-
मादिवाक्यवदभ्युदयशिरस्कत्वेनोपपत्तेः । को नामोपसंहारः १ अत ग्राह-उपसंहारो
नामेति । तत्र वार्तिकं प्रमाणयति – सामान्येति । अस्पष्टः, उद्देश्यविशेष सम्बन्धितया
न स्पष्टः । संह्रियेत उपसंह्रियेत । विशेषे पर्यवस्थाप्यतेति यावत् । कस्सामान्यविधिः ?
को वा विशेषविधिः ? तत्राऽऽह — तत्रेति । ऋतुविशेषमनारभ्य सामान्यत एव पाठात्
सामान्यविधित्वम्, क्रतुविशेषेषु पाठाच्च विशेष विधित्वमिति भावः ॥
( वाक्यस्य प्रकरणादितः प्राबल्यनिरूपणम् )
* एवं वाक्यं निरूप्य तद्गतं प्राबल्यमिदानीं निरूपयितुमारभते-तदिदमिति । आ-
काङ्क्षारूपमिति । उभयाकाङ्क्षा प्रकरणमिति वक्ष्यमाणत्वादिति भावः । स्वयं वाक्या-
दिकल्पनामन्तरा । अङ्गत्वस्य प्रवर्तनात्मक विध्ये कबोध्यत्वादाकाङ्क्षाया अशब्दरूपाया प्रत
थात्वादिति भावः । एकवाक्यभूतमिति । अन्यथा आकाङ्क्षा प्रशान्तेरिति भावः ।
एवञ्चाकाङ्क्षाया एकवाक्यतायामेव प्रमाणत्वात् सैव प्रथमं कल्पयितव्या । ततश्च लिङ्गा-
दिकल्पनम् । एवं च यावत् प्रकरणेनैकवाक्यतां लिङ्गं श्रुतिं च कल्पयित्वा विनियोगः
क्रियते ततः पूर्वमेव वाक्येन लिनश्रुतिकल्पनेन विनियोगः क्रियत इति प्रकरणात् वाक्य-
स्य बलीयस्त्वमित्याह - ततश्चेति ॥
क
-
अत एव वाक्यस्य प्रकरणाद्यपेक्षया प्राबल्यादेव। इन्द्राग्नी इदं हविरिति ।
अत्रायमाशयः - दर्शपूर्णमासप्रकरणे 'इदं द्यावापृथिवी भद्रमभूत्' इत्यादिः 'नमो
देवेभ्यः" इत्यन्तः सूक्तवाकपदाभिधेयः कश्चिदनुवाकः श्रूयते । तत्र चेष्टदेवतास्मारकेषु
'अग्निरिदं हविरजुषत' इत्यादिषुश्रुतो मन्त्रः इन्द्राग्नी इदं हविरजुषेतां अवीवृधेतां
महो ज्यायोऽकाताम्' इति । तत्र सोमयाजिनः सान्नाय्याभावात् तत्स्थाने विहित
AnER NPLFIES FLEETIME
१. पश्यताम् ।