This page has not been fully proofread.

४४
 
मोमांसान्यायप्रकाशः ।
 
[ [ वाक्य-
करोमि घृतस्य धारया सुशेवं कल्पयामि' (१) इत्यस्य सदनाङ्गत्वं लिङ्गात्, न
तु वाक्यात् पुरोडाशप्रतिष्ठापना(२)ङ्गत्वम्, तस्य दौर्बल्यादिति ॥
(वाक्यनिरूपणम् ) frie
 
10 समभिव्याहारो वाक्यम् । समभिव्याहारो नाम साध्यत्वादिवाचकद्विती-
याद्यभावे वस्तुतः शेषशेषिणोस्सहोच्चारणम् । यथा यस्य पर्णमयी जु-
हूर्भवति न(ख) पापश् श्लोक ५ शृणोति' इति । अत्र हि न द्वितीया दिविभक्तिः
श्रूयते, केवलं पर्णताजुहोस्समभिव्याहारमात्रम् । तस्मादेव च पर्णताया
जुह्वङ्गत्वम् । न चानर्थक्यम्, जुहूशब्देनापूर्वलक्षणात् । तदयं वाक्यार्थः-
पणतया प्रवत्तहविर्धारणद्वारा यदपूर्वसाधनं तद्भावयेत्
- इति । एवं च
पर्णतया यदि जुहूः क्रियते तदैव तत्साध्यमपूर्वं भवति नान्यथेति गम्यते इति
 
घृतस्य धारया सुशेवं सुखसेवनीयं तत् कल्पयामि, तस्मिन् सदने उपविश हे व्री-
होणां मेघ सारभूत शोभनमनास्सन् अमृते मरणरहिते स्थाने प्रतिष्ठितो भवेति मन्त्रार्थः ।
सदनाङ्गत्वमिति । सदनकरणाङ्गत्वमित्यर्थः । अयमभिसन्धिः- पूर्वार्धे सदनं
प्रकाशयति । उत्तरार्धे तु सादनम् । तद्यदि तस्मिन्निति उत्तरार्धस्थतच्छब्दस्य पूर्वार्धसा-
पेक्षत्वात् एकवाक्यत्वं परिकल्प्यते तदा उभयोरेकवाक्यत्वात् उभयोरप्यर्धयोस्सदने, सादने,
उभयत्र वा विनियोगः स्यात्, तद्बाधित्वा लिङ्गेन पर्वार्धस्य सदनकरणाङ्गत्व मेवेति ।
पुरोडाशप्रतिष्ठापनाङ्गत्वमिति । इदमुपलक्षणं उभयाङ्गत्वस्यापि ॥
 
( वाक्यनिरूपणम् )
 
वाक्यं निरूपयति- समभोति । श्रुत्यादावपि समभिव्याहारसत्वात् तत्रातिप्रस-
नवारणार्थं समभिव्याहार पदार्थमाह - समभिव्याहारो नामेति । साध्यत्वादित्या-
दिपदेन प्रथमेन साधनत्वादेः द्वितीयेन च तृतीयादेः परिग्रहः । शेषशेषिणोः श्रङ्गा-
ङ्गिनोः । तद्वाचकपदयोरिति यावत् । एवं च यत्र शेषशेषिणोस्सहोच्चारणमात्रेणाङ्गाङ्गि-
भावोऽवगम्यते तत्र वाक्यीयो विनियोगः । यत्र द्वितीयादिकमप्यस्ति तत्र सत्यपि समभि
व्याहारे 'प्रधानेन व्यपदेशा भवन्ती'ति न्यायेन श्रौतो विनियोग इति ध्येयम् । पर्णमयो
पलाशवृक्षनिर्मिता । पलाशवृक्षस्य च पर्णशब्दवाच्यत्वं- 'तृतीयस्यामितो दिवि सोम
आसीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत् पर्योऽभवत् । तत् पर्णस्य
पर्णत्वम्' इत्यर्थवादतोऽवगन्तव्यम् । तस्मादेव वाक्यादेव । पर्णताया जुह्वर्थत्वे जुहूस्वरूप-
स्य पर्णतां विनापि येन केनापि वृक्षेण सम्पादयितुं शक्यत्वादानर्थक्यं शङ्कते-नचेति ।
अपूर्वलक्षणादिति । अपूर्वसाघनत्वलक्षणादित्यर्थः । केवलमपूर्वसाघनत्वे लक्षिते ध्रुवा-
दीनामप्यपू र्वसाधनत्वाविशेषात् तत्रापि पर्णता प्राप्नुयात् तद्व्यावृत्यर्थ निष्कृष्टार्थमाह-
पर्णतयेति । श्रवत्तं व्यवदानेन संस्कृतं यद्धविः, तद्धारणद्वारेत्यर्थः । पूर्ववे
लक्षिते वैयर्थ्य परिहृतमित्याह — एवञ्चेति । विशेषणप्रयोजनं कथयति — अवत्तेति ।
 
1917
 
१. स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्ययामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां
 
मेध सुमनस्यमानः ॥ इति समग्रो मन्त्रः ।
 
२. सादनाङ्गत्वम्
 
andarkar Oriental
Institute