2023-02-15 04:03:27 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचनी व्याख्यासंवलितः
तत्सिद्धं प्रमाणान्तरसिद्ध सामान्य सम्बन्धस्य पदार्थस्य विनियोजक
लिङ्गमिति hypip
।
(9) g
तत्र मन्त्रविनियोजकं लिङ्गं मुख्य एवार्थे विनियोजकं, न गौणे। मुख्या-
र्थस्य प्रथममुपस्थितत्वेन तत्रैव (१) विनियोगबुद्धौ पर्यवसन्नायां पुनर्गौणेऽर्थे
विनियोगकल्पनायां गौरवप्रसङ्गात् । श्रत एव "बहिर्देवसदनं दामो"ति मन्त्रः
सामर्थ्यात्कुशलवनाङ्गम् तेषां मुख्यत्वात्, नोलपराजिलव नाङ्गमित्युक्तम् ।
लिङ्गस्य वाक्यादितः प्राबल्यनिरूपणम्)
तदिदं लिङ्गं वाक्यादिभ्यो बलवत् । तेषां हि न साक्षाद्विनियोजकत्वम्,
किं तु लिङ्गं श्रुतिं च कल्पयित्वा । न चासमर्थस्य श्रुतिं कल्पयित्वा विनियोग-
कल्पना सम्भवतीति सामर्थ्यस्यापि कल्प्यत्वेनोपजोव्यत्वात् । अतस्तैर्याव-
त्सामथ्र्यं कल्पयित्वा श्रुतिः कल्प्यते तावदेवं क्लृप्तेन सामर्थ्येन श्रुतिः कल्प-
यित्वा विनियोगः क्रियते इति तस्य प्राबल्यम् । अत एव 'स्योनं ते सदनं
मन्त्रप्रतिपाद्यपूषदेवतादिविशिष्टे । प्राप्तिरिति । मन्त्राणामिति शेषः । अङ्गत्वेन सम्ब-
न्ध इत्यर्थः ।
Miles 302-16
-
एवं सामान्यसम्बन्धबोधक
प्रमाणान्तरसापेक्षं लिङ्गमुपवर्यानन्तरं लिङ्गस्य मुख्येऽर्थे
विनियोजकत्वं वक्तुमारभते--तत्रेति । लिङ्गद्वयमध्य इत्यर्थः । मन्त्रविनियोजक-
मिति । अर्थगतस्य लिङ्गस्य विशेषविचारासहत्वादिति भावः । शक्त्या प्रतिपादितोऽर्थो
मुख्यः । गौण्यादिना प्रतिपादितो गौणः । गौणार्थे विनियोजकत्वाभावे हेतुमाह--
मुख्यार्थस्येति । गौरवप्रसङ्गादिति । श्रयमाशयः - सर्वत्र प्रकरणपठितमन्त्रगता
काङ्क्षान्यथानुपपत्या विनियोगः कल्प्यते । तद्यत्र गौणेऽर्थे विनियोगः कल्पयितुमारभ्यते
तत्र मुख्यार्थप्रतिसन्धानमन्तरा गौणार्थस्य बुद्धावनारोहात् प्रथमं मुख्यार्थप्रतिपत्त्यावश्य-
कतायां प्रथमोपस्थिते मुख्यार्थ एव मन्त्रस्य विनियोगोपपत्तौ तावतैव मन्त्राकाङ्क्षायाश्शा-
न्तस्वेन कल्पनामूलोच्छेदात् पुनरपि गौणेऽर्थे विनियोग कल्पनेऽना काङ्क्षितविधानरूपं गौरवं
प्रसज्येतेति । न च गौणार्थस्थापि स्मर्तव्यतया स्मारकापेक्षासद्भावात् तदनुरोधेन
तत्रापि विनियोगः कल्प्यतामिति वाच्यम् । गौणार्थस्य ध्यानाद्युपायान्तरेणापि स्मृति-
सम्भवेन नियमेन मन्त्रानपेक्षणात् । तेषां कुशानाम् उलपः शुष्कं बर्हिः, उशीरतृणं वा ।
इत्युक्तमिति । तृतीयद्वितीयप्रथमे लिङ्गाधिकरण इति शेषः ।
( लिङ्गस्य वाक्यादितः प्राबल्यनिरूपणम् )
एवं लिङ्गं निरूप्य तद्गतं वाक्यादिभ्यः प्राबल्यं निरूपयति--तदिमिति । तत्र
हेतुमाह--तेषां होति । न साक्षादिति । एतच्चास्माभिः पूर्वमेव निरूपितम् । नच
साक्षात् श्रुतिकल्पनमपि सम्भवतीत्याह-न चेति । तस्य लिङ्गस्य । स्योनं त इति ।
दर्शपूर्णमासप्रकरणे श्रुतोऽयं मन्त्रः । हे पुरोडाश स्योनं सुखकरं ते तव स्थानं करोमि ।
ASTITUD
१. विनियोजकतायां
HERIB S
नावधीत
T-PF & E FR
Research Institute