This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्या संवलितः
 
तस्य वाक्यलिङ्गश्रुतिकल्पनेन विनियोजकत्वात् लिङ्गस्योपजीव्यत्वेन प्राब-
ल्यम् । अतो लिङ्गात्पूषप्रकाशनार्थत्वे ऽवगते तन्मात्रप्रकाशनमनर्थकमित्य
पूर्वसाधनपूषप्रकाशनार्थत्वं वक्तव्यम् । किं तदपूर्वमित्यपेक्षायां यागानुम-
न्त्रण समाख्यानुगृहीतालिङ्गात् पूषयागापूर्वसम्बन्धिदेवता
प्रकाशनार्थोऽयमि-
त्यवगम्यते । मतो यद्यपि समाख्यातः प्रकरणं बलीयः तथाऽपि तस्य लिङ्गेन
बाधितत्वात् समाख्याया दुर्बलाया अपि प्रबललिङ्गाश्रितत्वेन प्राबल्यात्
सैव सामान्यसम्बन्धे प्रमाणं सम्भवति, दुर्बलस्यापि प्रबलाश्रितस्य
प्राबल्यात्
कवित
 
3
 
अत एव श्रुत्यपेक्षया दुर्बलाया श्रपि स्मृतेराचमनरूप
प्रबलपदार्थाश्रित-
त्वेन प्राबल्यात्पदार्थधर्मगुणभूतश्रौतक्रमत्यागेन वेदकरणानन्तरं क्षुते आचम-
नमेव कार्यमित्युक्तम् ।
 
IP
 
तस्य प्रकरणस्य । वाक्यलिङ्गश्रुतिकल्पनेन । बलाबलाधिकरणे उत्तरोत्तर प्रमाणानां
पूर्वपूर्वप्रमाणकल्पनेनैव विनियोजकत्वस्योक्तत्वादिति भावः । तन्मात्रप्रकाशनं पूर्व-
साधनस्वमन्तरा पूषस्वरूपमात्र प्रकाशनम् । अपूर्वसाधनपूषप्रकाशनार्थत्वमिति ।
अपूर्वस्यादृष्टरूपत्वेनैतदन्तरा तदुत्पत्तौ प्रमाणाभावेन तदर्थत्व अनर्थक्याभावादिति
भावः । तस्य प्रकरणस्य
 
अत एव दुर्बलस्यापि प्रबलाश्रितस्य प्राबल्यादेव । दुर्बलाया इति । श्रुतेः प्रत्य-
क्षत्वेन स्वतः प्रामाण्यात् स्मृतेः पौरुषेयत्वेन स्वतः प्रामाण्यायोगेन मूलभूतश्रुतिकल्प-
नेनैव प्रामाण्यस्य वक्तव्यत्वात् श्रुत्यपेक्षया स्मृतेर्दोर्बल्यमिति भावः । स्मृतेरिति ।
'क्षुतजृम्भणादिनिमित्ते आचान्तेन कर्म कर्तव्यम्' इति स्मृतेरित्यर्थः । श्रोतक-
मेति । 'वेदंं' कृत्वा वेदिं करोती'ति श्रुतिविहितवेदिकरणनिष्ठवेदकरणानन्तर्यरूपक्रमे-
त्यर्थः । श्रयमत्र विषयः-दर्शपूर्णमासप्रकरणे श्रुतेन 'वेदं कृत्वा वेदिं करोती ति
वाक्येन वेदकरणानन्तर्ये वेदिकरणे विधीयते । अथ च स्मरन्ति 'क्षुतजृम्भणादिनिमित्ते
आचान्तेन कर्म कर्तव्यम्' इति । वेदो नाम शयानवत्सभुग्नजान्वाद्याकृतिविशिष्टो
दर्भमुष्टिविशेषः। सम्मार्जन खननोद्धननादिभिः संस्कार विशेषैः। संस्कृता भूमिः वेदिः ।
तद्यदि वेदकरणानन्तरं क्षुयात् तदा प्राप्तमाचमनं बाधित्वा क्रमानुग्रहार्थे वेदिकरण-
मेवानुष्ठेयम्, उत क्रमं बाधित्वा आचमनमिति संशयः । तत्र क्रमस्य प्रबलश्रुतिबोधि-
तत्वेन प्राबल्यात् स्मार्तमाचमनं बाधित्वा वेदिकरणमेवानुष्ठेयमिति पूर्वः पक्षः । यद्यपि
स्मृत्यपेक्षया श्रुतिः प्रबला तथापि श्रुतिबोधितस्य क्रमस्यानुष्ठेयपदार्थंगतत्वेन पदा-
र्थगुणत्वात् दौर्बल्यम्; स्मृतेः दुर्बलत्वेऽपि तद्बोधितस्याच मनस्य स्वतः पदार्थत्वेन
प्रावल्यम् । न ह्यहिनकुलवत् स्वरूपेण श्रुतिस्मृत्योर्विरोधः, विरुद्धप्रमेय प्रतिपादक
तयैव सः । तद्यदि प्रमेयपर्यालोचनापुरस्सरं तद्गतो विरोध आलोच्यते, तदैव तद्गतप्राव.
व्यमध्यवगतं भवतीति। प्रथमोपस्थितत्वात् प्रमाणबलाबलापेक्षया प्रमेयबलाबलस्यैव
ज्यायस्त्वेन क्रमं बाधित्वापि प्रबलस्याचमनस्यैवानुष्ठानमिति राद्धान्तः । इत्युक्तमिति ।
 
NDED
 
Bhandarkar Oriental
 
६ मी० न्या०