This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचनी व्याख्यासंवलितः
 
३७
 
यत्तूक्तम् – कर्तुरनभिधाने देवदत्तेन पचतोति तृतीयाप्रसङ्गः-इति, तन्न;
तृतीया हि कर्तुः प्रतिपत्त्यर्थं तद्गतसङ्ख्या प्रतिपत्त्यर्थं वा । तत्र कर्ता तु भाव-
नाक्षेपादेव लभ्यत इति न तत्र तृतीयापेक्षा । तत्सङ्ख्या तु आख्याते नैव
प्रतीयत इति न तत्राप्यपेक्षा । यथाहुः- 16:
सङ्ख्यायां कारके वा धीविंभक्त्या हि प्रवर्त्त्यते ।
 
उभयं चात्र तत्सिद्धं भावनातिविभक्तितः ॥ इति ।
यत्र तु नाख्यातेन तद्गता सहयोच्यते तत्र भवत्येव तृतीया, यथा-देव-
दत्तेन श्रोदनः पच्यते इति । तस्मान्न कर्तुरनभिधाने किञ्चिदूषणमित्यलम-
तिविस्तरेण । प्रकृतमनुसरामः । तत्सिद्धस्त्रिविधः श्रुतिविनियोगः ॥
 
(श्रुतेलिंङ्गादितः प्राबल्यनिरूपणम् )
 
सेयं श्रुतिर्लिङ्गादिभ्यः प्रबलं प्रमाणम् । लिङ्गादिषु हि न प्रत्यक्षो विनि-
योजकश्शब्दोऽस्ति, किं तु कल्प्यः । यावच्च तैर्विनियोजकश्शब्दः कल्प्यते
करणं मुनित्रयोक्तिविरुद्धमिति शङ्कनीयम् । "एकत्वादयो विभक्त्यर्थाः, कर्मादयोपि
विशेषणत्वेन" इति "बहुषु बहुवचनम्" इति सूत्रव्याख्यानावसरे वाक्यभाष्यका-
राभ्यामुतत्वात् । न च कर्मादिगतसङ्ख्यावाचित्वेऽपि विशेषणीभूत कर्मादिवाचित्वमपि
सिध्यतीति वाच्यम्, भावनया श्राक्षितस्यानभिधेयस्यापि कर्तुः संख्योपलक्षणमात्रत्वात् ।
पूर्वोक्तवाक्यस्यापि तत्रैव तात्पर्यात् । एवं च आाख्यातस्य कर्तृवाचित्वस्यैवासिद्धेः न
तदादाय स्मृतिविरोधोद्भावनं युक्तमिति भावः । तृतीयेति । देवदत्तेनेति याऽऽपाद्यते
तृतीया सेत्यर्थः । भावनाक्षेपात् भावनया श्राक्षेपात् । सङ्ख्यायामिति । कर्त्रधिकरण-
स्थवार्तिकमिदम् । भावनातिविभक्तित इति । तृतीया हि संख्याविषयकं करणत्व-
विषयकं च ज्ञानं सम्पादयेत् । उभयमप्यत्र प्रमाणान्तरेण सिध्यति । भावनया कर्तुः
तिविभक्त्या संख्यायाश्च सिद्धवादित्यर्थः । अलमतिविस्तरेणेति । अधिकमवजिग-
मिषुभिः वार्तिकन्यायसुधादितोऽवगन्तव्यम् विस्तरभयात्तु नेह प्रपञ्च्यत इति भावः ।
प्रसज्ञागतत्वमाख्यातस्य कर्तृवाचकत्वाभावनिरूपणस्य ध्वनयति - प्रकृतमिति ।
 
(श्रुतेः लिङ्गादितः प्राबल्यनिरूपणम् )
 
एवं श्रुतिं निरूप्य तद्गतं लिवाद्यपेक्षया-प्राबल्यं निरूपयति- सेयमिति । यद्यपि
मूले श्रुत्यादिप्रमाणषट्क निरूपणं परिसमाप्यैव तद्गतप्राबल्यदौर्बल्यनिरूपणं कृतं, तथा
प्यत्र श्रुतौ निरूपितायां तद्गतप्राबल्यदौर्बल्यशङ्काया उत्थितत्वात्तस्याश्चोपेक्षा नर्हत्वादत्रैव
तन्निरूपणमिति ध्येयम् । प्राबल्ये हेतुमाह - लिङ्गादिष्विति । श्रुतिव्यतिरिक्त लिङ्गादि-
प्रमाणपञ्चके इत्यर्थः । श्रयमाशयः - न केवलं सामर्थ्य समभिव्याहारादिकं वा दृष्ट्वा
श्रङ्गताबुद्धिरुत्पद्यते, किं तु या द्वितीयातृतीयादिः साध्यत्वकरणत्वादिबोधिका तयैव सेति
अवश्यं लिङ्गादिभिः स्वान्यथानुपपत्या श्रुतिः कल्पनीया, तदपि पूर्वपूर्वप्रमाण कल्पनद्वा-
रैवेति तत्तन्निरूपणावसरे वक्ष्यते । तद्यत्र लिङ्गादिविरुद्धा श्रुतिः तत्र यावत् लिङ्गेन श्रुतिं,
वाक्येन लिङ्गश्रुती, प्रकरणादिभिश्च स्वस्वपूर्वप्रमाणानि कल्पयित्वा विनियोगः क्रियते,
ततः पूर्वमेव प्रत्यक्षया श्रुत्या प्रमाणान्तरनिरपेक्षया अन्यत्र विनियोगः कृत इति तावतैव
 
FOU