2023-02-15 04:03:26 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ आख्यातार्थ -
मानाधिकरण्यं न मुख्यम्; तन्मते आख्यातेन तृतीयावन्निष्कृष्टशक्तिमात्ररूपक-
तृकारकाभिधानात्, शक्तिम द्रव्यस्याकृत्यधिकरणन्यायेनानभिधानात्, देवद-
तशब्देन च द्रव्यमात्राभिधानात्, अतश्च भिन्नार्थनिष्ठत्वात्तन्मतेऽपि न मुख्यं
सामानाधिकरण्यम्, किंतु लाक्षणिकमेवेति न कश्चिद्विशेषः । DIRE
न च 'लः कर्तरीति व्याकरणस्मृति बलादाख्यातवाच्यः कर्तेति वाच्यम् ।
न हि वाच्यवाचकभावो व्याकरणस्मृत्यधीनः । तस्य न्यायसहितान्वयव्यति-
रेकगम्यत्वात् । भवतु वा स्मृतिगम्यः, तथापि नेयं स्मृतिः कर्तुराख्यातवा-
च्यत्वे प्रमाणम् ; किन्तु कर्तुरेकत्वे एकवचनात्मको लकारः, द्वित्वे द्विवचना-
त्मकः, बहुत्वे बहुवचनात्मक इत्यस्मिन्नर्थे प्रमाणम्, 'द्येक योद्विवचनै-
कवचने, बहुषु बहुवचनमित्यनेनास्याः स्मृतेरेकवाक्यत्वात् ।
ति । तृतीयावदिति । कारकाणामेव क्रियान्वयात् तृतीयायाः कर्तृत्ववाचित्व एव क्रिया.
न्वयो घटते, न तु तदाश्रयवाचित्व इत्यर्थः । शक्तिमात्रेति । मात्रपदेन तदाश्रयव्यावृत्तिः ।
आकृत्यधिकरण न्यायेनेति । अयं भावः- द्रव्यकारकवादिनो वैय्याकरणस्य पक्षेऽपि
निश्शक्तिकस्य कारकत्वायोगात्, शक्तिविशिष्टस्य कारकत्वमभ्युपगन्तव्यम् । तथा च
'नागृहीत विशेषणा' न्यायेन शक्तः पूर्व ज्ञानावश्यम्भावेन तत्रैव शब्दव्यापारोपरमात्
विशिष्टे शक्तिकल्पनायां गौरवापत्तेः न शक्तिमद्रव्यस्याभिधानमिति । भिन्नार्थनिष्ठ
त्वादिति । देवदत्तशब्दस्य द्रव्यमात्रपरत्वस्योभयवादिसिद्धत्वात् आख्यातस्य शक्तिमा-
त्रपरत्वस्य भवताप्यवश्याभ्युपगमनीयत्वाच्चेति भावः । एवं च भवन्मतेऽपि मुख्यसामा
नाधिकरण्यासम्भवेऽपि गौणसामानाधिकरण्यमङ्गीकृत्यैव यथा निर्वाहः कथंचित् कार्यः,
एवं ममापि भविष्यतीति नात्र पर्यनुयोगावसर इत्याशयेनाह – न कश्चिद्विशेष इति ।
इदानीं न्यायसिद्धविषये स्मृतिविरोधमुक्तमनूद्य परिहरति-नचेति । तत्रैव स्मृति-
न्याययोः विरोध उद्भावनीयो यत्र स्मृतिन्यायौ समानविषयौ । अत्र तु न्यायस्यान्य एव
विषयः - किं वाच्यं किं वाचकमिति । व्याकरणस्य तु अन्य एव विषयः -कः साधु-
शब्दः को वाऽपभ्रंश इति । एवं च साध्वसाधुशब्द मात्र विषयकस्य व्याकरणस्य शब्दार्थ-
निर्णायकेन न्यायेन सह विरोध एव नास्तीत्याशयेनाह - न होति । तर्हि किमधीनः ?
तह–तस्येति । न्यायेति । "अनन्यलभ्योऽर्थो वाच्यः, अन्यलभ्योऽर्थो
गम्यः" इति न्यायेत्यर्थः । अत एवोक्तं वार्तिक कृता — "वाच्यवाचकसम्बन्धो ना-
चार्यैरुपदिश्यते । अन्यथानुपपत्त्या हि व्यवहारात्स गम्यते" इति । अभ्युपेतेऽपि
स्मृतिगम्यत्वे न भवदिष्ट सिद्धिरित्याह-
भवतु वेति । स्मृतिगम्य इति । वाच्यवा-
चकभाव इति शेषः । एकवाक्यत्वादिति । श्रयमाशयः - "सर्वाण्येव हि शास्त्रा
णि स्वप्रदेशान्तरैस्सह । एकवाक्यतया युक्तमुपदेशं वितन्वते" इति न्यायेन
"लः कर्मणि" इत्यस्य "इथेकबोरि" त्याद्येकवाक्यतावश्यमङ्गीकार्या, अन्यथा
एकदेशभूतस्याऽस्य अर्थप्रतीतिजनकत्वमेव न स्यात् । न च वाच्यमिदमेकवाक्यताङ्गी-
करणं व्याकरणे ऽदृष्टचरमिति । व्याकरणे प्रायेण संज्ञापरिभाषादिसूत्रेषु एकवाक्यताया
एवाज्ञीकारात् । नच्चैवं एकवाक्यतामङ्गीकृत्य लकाराणां कर्त्रादिगतसङ्ख्यावा चित्वाङ्गी-