This page has not been fully proofread.

३४
 
मीमांसान्यायप्रकाशः ग
 
[ आख्यातार्थ -
 
त्वाद्वा । न च तदा प्रातिपदिकेनैवार्थस्योक्तत्वात् प्रथमावैयर्थ्यम् । लिङ्गसङ्ख्या-
प्रतिपत्त्यर्थं तस्या आवश्यकत्वात् । केवलप्रातिपदिकस्य प्रयोगासाधुत्वाच्च ।
ततश्च यदि कर्ता न वाच्यस्स्यात् देवदत्तेन पचतीति प्रयोगस्स्यात् । तस्मा-
दाख्यातवाच्यः कर्तेति सिद्धमिति पूर्वपक्षसङ्क्षेपः ।
 
अत्राहुः - स एव हि शब्दस्यार्थो यः प्रकारान्तरेण न लभ्यते, 'अनन्य-
लभ्यश्शब्दार्थ' इति न्यायात् । अत एव न गङ्गापदस्य तीरमर्थः, लक्षणयेव
प्रतिपत्तिसम्भवात् । अत एव च न वाक्यार्थे शक्तिः । एवं चाख्यातवाच्यभा-
वना कर्तारं विनानुपपन्ना तमाक्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसम्भवे कि-
मिति तद्वाचकत्वमाख्यातस्य कल्पनीयम् ।
 
अभिहितं यत्कर्तृकारकं कर्मकारकं वा तद्द्बोधकविभक्तित्वादित्यर्थः । ननु - न प्रथमायाः
अभिहितकारकवाचित्वं सम्भवति 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा' इति
प्रातिपदिकाद्यर्थमात्रे प्रथमाविधानात् ता - प्रातिपदिकेति ।
 
>
 
ननु न सर्वत्र विभक्त्या लिङ्गसङ्घयाप्रत्तिपतिस्सम्भवति । अलिङ्गनियतलिङ्गेषु
प्रातिपदिकार्थमात्रप्रतीतेः इत्यस्वरसादाह–केवलेति । 'न केवला प्रकृतिः प्रयोक-
व्या' इति न्यायादिति भावः । आख्यातस्य कर्तृवाचकत्वमुपसंहरति-तस्मादिति ।
 
सिद्धान्तयति - अत्राहुरिति । अयं भावः – सर्वत्रैव तावत् उच्चरितात् शब्दात्
अनेकेऽर्थाः प्रतीयन्ते । न चैतावता सर्वेषां शब्दाभिधेयत्वं सम्भवति । 'अन्याय्यं चाने-
कार्थत्व'मिति न्यायात् । अतः क्वचिदेव शक्तिः ; इतरेषां तु लक्षणादिना प्रतीतिरित्ये-
वाभ्युपगन्तव्यम् । तद्यत्र शक्तिकल्पनामन्तरा प्रतीतिप्रयोगौ नावकल्पेते तत्रैव शक्तिः,
यत्र त्वन्यविषयिण्यैव शक्त्या प्रतीतिप्रयोगौ अन्येषामुपपद्येते तत्र न कल्प्यते शक्तिः । यथा
गङ्गापदस्य न तीरे शक्तिः, यथा वा सिंहपदस्य न माणवके शक्तिः । तदिह प्रख्यात
श्रवणात् भावनाकर्तृतत्संख्या पुरुषोपग्रहका लविशेषाः प्रतीयन्ते । नैतेष्वेकेनापि भावना
क्षिप्यते । तथाहि - न तावत् कालसङ्ख्यादीनां तदाक्षेपकत्वम् । विनापि भावनां काल.
संख्यादीनां सत्वात् । न च सङ्ख्यादीनां व्यभिचारेऽपि कर्तुरव्यभिचारात् तेन तदाक्षेपोऽ-
स्त्विति वाच्यम्, कर्तुरप्रयतमानस्य पाकादौ कर्तृत्वस्यैवाऽसिद्धेः । तत्सिद्धयर्थं गम्यमा-
नायाः प्रयत्नरूपाया भावनायाः तदपेक्षया प्राधान्यायोगात् । न चेष्टापत्तिः । 'भावप्रधा-
नमाख्यातम्' इति स्मृतिविरोधापत्तेः, विशिष्टे शक्तिकल्पनारूपगौरवप्रसङ्गाच्च । अतो
लाघवात् भावनायामेव कृत्यपरपर्यायायां शक्ताववघारितायां तथा कर्तुराक्षेप इत्यन्यलभ्य-
त्वान्नाख्यातस्य कर्तृवाचकत्वमिति ।
 
न च कर्तुरिव कालादीनामपि तयैवाक्षेपसम्भवात् तेषामप्याख्यातवाच्यत्वाना-
पत्तिरिति वाच्यम् । भावनया नियमेन कालसंख्या दिविशेषाणामनाक्षेपात् । दृश्यते हि
भावना कालान्तरपुरुषान्तरोपग्रहान्तरेष्वपीति । तीरमर्थ इति । गङ्गायां घोषः इत्य-
त्रेत्यर्थः । प्रतिपत्तिः ज्ञानम् । अत एव अनन्यलभ्यस्यैव शब्दार्थत्वादेव । प्रत्येकं
पदैः पदार्थोपस्थितौ समभिव्याहारादेव परस्परसम्बन्धरूपस्य वाक्यार्थस्य प्रतिपत्ति-
सम्भवेन न वाक्यस्य वाक्यार्थे शक्तिकल्पनमावश्यकमिति भावः । एतेन वाक्यस्य वा-