This page has not been fully proofread.

२८
 
मोमांसान्यायप्रकाशः
 
[ श्रुति-
योकत्री चेति । तत्र विधात्री लिङाद्यात्मिका । अभिधात्रो व्रीह्यादिश्रुतिः ।
यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोकी । सा च
त्रिधा-विभक्तिरूपा, समानाभिधानरूपा, एकपदरूपाचेति । तत्र विभक्ति-
श्रुत्याङ्गत्वं यथा-'व्रीहिभिर्यजेते'ति तृतीयाश्रुत्या वोहोणां यागाङ्गत्वम् ।
 
न च उत्पत्तिशिष्टपुरोडाशावरुद्धे यागे कथं व्रोहीणामङ्गत्वमिति वाच्यम् ।
पुरोडाशप्रकृतितयोपपत्तेः, पशोरिख हृदयादिरूपहविष्प्रकृतितया यागाङ्ग-
त्वम् । न च साक्षात्पशोरेवाङ्गत्वं किं न स्यादिति वाच्यम्, तस्य विशस-
नात्, श्रवदीयमानत्वाच्च हृदयादीनाम् । श्रवदोयमानं हि हविः, यथा पुरो-
त्रिधा भिन्ना तुल्यशब्दादिभेदतः ॥ इति । तत्र श्रुतित्रयमध्ये । लिङाद्यात्मि-
केति । यः प्रत्ययो विधायको लिङादिः स एव विधात्री श्रुतिरित्यभिधीयते इत्यर्थः ।
श्रवणादेवेति । शब्दान्तरापेक्षां विनैवेत्यर्थः । सा विनियोक्त्री । एवं श्रुतिं विभज्य
विधात्र्याः अभिधात्र्याश्च साक्षाद्विनियो जकत्वस्याभावेन ते उपेक्ष्य विनियोक्त्र्याः विनि-
योजकत्वमुपपादयति — तत्रेति । विनियोक्त्रीत्रयमध्य इत्यर्थः ।
 
-
 
ननु -'यदाग्नेयोऽष्टाकपालीऽमावास्यायां च पौर्णमास्याञ्चाच्युतो भवति,
ताभ्यामेतमग्नोषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्' इत्यादिभिः द्रव्यविशि-
ष्टस्यैव यागस्य विधानादुत्पत्तिशिष्टद्रव्यावरोधे वाजिनन्यायेन द्रब्यान्तरनिवेशस्यासम्भवात्
कथं ब्रीहीणां यागाङ्गत्वेन विधानं इति शङ्कते - न चेति । पुरोडाशप्रकृतितयेति ।
पुरोडाशस्य पिष्टपिण्डरूपत्वेन पिष्टानां प्रकृतिद्रव्यापेक्षायां तत्वेन त्रीहीणां विधानमित्यर्थः ।
दृष्टान्तमाह - पशोरिवेति । "अग्नोषोमोयं पशुमालभेत" इत्यनेन वाक्येन यथा
हृदयादिहविःप्रकृतित्वेनैव पशोर्विधानं तद्वदत्रापीत्यर्थः । ननु उत्पत्तिवाक्ये पुरोडा-
शस्य साक्षाद्देवतासम्बन्धबोधनेन यागसाधनत्वावगमात् न तेन विकल्पः समुच्चयो वा
सम्भवतीति युक्तं तत्प्रकृतित्वेन ब्रीहीणां विधानं, पशोस्तु साक्षादेवोत्पत्तिवाक्ये देवता-
सम्बन्धोऽवगम्यत इति साक्षादेव यागसाधनत्वमस्तु, किमर्थं हविःप्रकृतित्वेन विधानम-
ङ्गीक्रियत इति शङ्कते - न चेति । विशसनादिति । 'पशुं विशास्ति' इत्यनेन
विशसनस्य विहितत्वात् साक्षादेवाज्ञत्वे तथैव त्यागस्यापि कर्तव्यतया तदाम्नानं व्यर्थ
स्यादिति भावः । विशसनं छेदनम् । ननु न केवलं विशसनाम्नानमात्रेण प्रकृतित्वं
वक्तुं शक्यते, विशस्यावदायापि पुरोडाशवत् त्यागहोमयोः कर्तुं शक्यत्वादित्यत
आह - अवदीयमानत्वाच्च हृदयादोनामिति । एकादशानामिति शेषः । एवञ्च
पशोः यागसाधनत्वान्यथानुपपत्या यद्यपि प्रत्येकं द्व्यवदानं प्राकृतं निखिलाङ्गेषु प्रा.
प्नोति, तथापि तस्यैवातिदेशेनोपस्थापितस्यावदानान्तरस्य वा तत्स्थानापन्नस्य हृदया-
दिवाक्यैः हृदयादिसंस्कारकत्वेन विधानात् तेन च हृदयादीनां एकादशानामेवाङ्गानां
हविष्ट्वसिद्धेः इतरेषां हविष्ट्रपरिसंख्यानाच्च सिद्धं पशोः प्रकृतिद्रव्यत्वमिति भावः ।
हृदयादोनामित्यादिपदेन जिह्वा, वक्षः, यकृत्, वृक्यौ, सव्यं दोः, उभे पावें,
दक्षिणा श्रोणिः, गुदतृतीयं, इत्येतानि गृह्यन्ते । अवदीयमानं हि हविरिति । द्विई-
1917
 
Rese
 
titute