2023-02-15 04:03:23 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचनी व्याख्यासंवलितः
तिति । सहि तृतीयाप्रतिपन्नाङ्गभावस्य दध्नो होमसम्बन्धं विधत्ते-दध्ना
होमं भावयेदिति ।
एतस्य च विधेः सहकारिभूतानि षट् प्रमाणानि-श्रुतिलिङ्गवाक्यप्रकर-
णस्थानसमाख्यारूपाणि । एतत्सहकृतेन विधिना अङ्गत्वं परोद्देशप्रवृत्तकृति-
व्याप्यत्वरूपं पारार्थ्यापरपर्यायं ज्ञाप्यते ।
(श्रुतिनिरूपणम्)
77 तत्र निरपेक्षो रवः श्रुतिः । सा च त्रिविधा-विधात्री, अभिधात्री, विनि-
२७
यः सम्बन्धः साध्यसाधनभावः तद्द्बोधक इत्यर्थः । तृतीयाप्रतिपन्नेति । तृतीयया
ज्ञातेत्यर्थः । एवञ्च दध्नेति तृतीया करणत्वापरपर्यायं साधनत्वं बोधयति, तच्च जुहो-
तीति विधिप्रत्ययो विदधातीत्यर्थः । तत्र च भावनायां होमस्य भाव्यत्वेनान्वयः, तदे-
वाभिलपति-दना होममिति । एवं विनियोगविधिस्स्वरूपं निरूप्य तदुपकारकारिण
श्रुत्यादीनि षट् प्रमाणानि निरूपयितुमुपक्रमते-एतस्येति । षडित्यधिकसंख्याव्यव-
च्छेदार्थम् । एतेन उपादानाख्यं सप्तमं प्रमाणं विनियोगकारणमभ्युपगम्य तेन प्रोक्ष-
णादेः क्रत्वर्थत्वं बोध्यते । अत एव तस्य चतुर्थाध्यायनिरूपणीयत्वमिति चतुर्थाध्याये
उपादानाख्यं प्रमाणमेव निरूप्यते इति वदन्तः प्राभाकरा निरस्ताः । नह्युपादानाख्य-
प्रमाणाभ्युपगमे प्रमाणमस्ति । प्रोक्षणादीनां क्रत्वर्थत्वस्यापूर्वार्थत्वस्य वा श्रुत्यैवावग-
मात् । प्रोक्षणादीनां श्रुत्या बोधितमङ्गत्वं वीह्यादिस्वरूपे अनर्थकं सत् अपूर्वसाध-
नत्व एव पर्यवस्थतीति तावत्पर्यन्तं श्रुतिव्यापाराभ्युपगमावश्यंभावात् । विस्तरेणायमर्थो
न्यायरत्नमालायामङ्गनिर्णये निरूपित इति तत एवावगन्तव्यम् इत्यभिसन्धिमान्
प्रमाणानि परिगणयति – श्रुतीति । एतत्सहकृतेन प्रमाणषट्कसहकृतेन । ननु किं
नामाङ्गत्वम्, नोपकारकत्वमङ्गत्वम् गोदोहनादेरपि प्रणयनाद्युपकारकत्वेन तदङ्गता-
पत्तेः; जामात्रर्थे कृतस्य दीपस्य शिष्योपकारकत्वेऽपि तदनङ्गत्वाच्च; नाप्यविनाभावः,
आग्नेयादीनां परस्परात्वापत्तेः; नापि प्रयोज्यत्वं तत्, 'पुरोडाशकपालेन तुषानु-
पत्रपती' त्यत्र पुरोडाशकपालस्य तुषोपवापप्रयोज्यत्वाभावेऽपि अङ्गत्वसत्वात्, अत
- परोद्देशेति । अन्योद्देशेन प्रवृत्तस्य पुरुषस्य या कृतिः तद्व्याप्यत्वं कारक-
त्वेन तत्सम्बन्धित्वमित्यर्थः । अतः कालादेः कृतिसाध्यत्वाभावेऽपि नाङ्गत्वव्याघातः,
फलस्यापि कारकत्वेन तत्सम्बन्धित्वात् स्वस्यैव स्वाङ्गत्ववारणाय – परेति । किमिदं
जैमिनीयात् पारार्थ्यरूपादनत्वात् भिन्नम् ? नेत्याह- पारार्थ्येति । पारार्थ्यमित्यपरः
पर्यायो वाचकशब्दो यस्य तदित्यर्थः । एवंच विधिरेवाङ्गत्वं विदधाति । विधेयसमर्पक
श्रुत्यादिकं तत्सहकारि भवतीति भावः ।
तत्र प्रमाणषट्कमध्ये । निरपेक्ष इति । अङ्गत्वबोधने लिङ्गादिवत् प्रमाणान्त-
रमनपेक्षमाण इत्यर्थः । श्रुतिं विभजते-सा चेति । यद्यप्यत्र विनियोगप्रस्तावे विधा-
त्र्यभिधात्र्योः निरूपणं नातीव सङ्गतम्, तथापि श्रुतिप्रसङ्गात् तयोः विधिसहकारित्वात्
ग्रन्थकर्तृभिरुक्तत्वाच्च तन्निरूपणमिति बोध्यम् । उक्तं हि न्यायरत्नमालायां पार्थ-
सारथिमिश्रैः-तत्र श्रुतित्रिधा भिन्ना विध्युक्तिविनियोगकृत् । विनियोक्त्रो-
In