2023-02-15 04:03:24 by ambuda-bot
This page has not been fully proofread.
२४
मीमांसान्यायप्रकाशः
[ मत्वर्थलक्षणा-
तिष्टोमेने' त्यस्य च नाऽऽनर्थक्यम् । अधिकारविधित्वोपपत्तेः । अतः किमर्थं
संभवति रूपवति वाक्ये कर्मविधाने तद्रहिते तत्स्वीकार्यम् ?
किं च 'दध्ना जुहोती'त्यस्य कर्मोत्पत्तिविधित्वे 'पयसा जुहोती'त्यनेनै-
तत्कर्मानुवादेन न पयो विधातुं शक्यते, उत्पत्तिशिष्टद्ध्यवरोधात् । उत्प-
तिशिष्टगुणावरुद्धे हि न गुणान्तरं विधीयते, आकाङ्क्षाया उत्पत्तिशिष्टेनैव
निवृत्तत्वात् । अतस्तेनापि विशिष्टं कर्मान्तरं विधेयम् । तथाचानेकादृष्ट-
कल्पनागौरवम् । 'अग्निहोत्रं जुहोती'त्यस्य तु उत्पत्ति विधित्वे एतद्वाक्य-
विहितस्य कर्मणो द्रव्याकाङ्क्षायां युगपदेव खलेकपोतन्यायेन 'दध्ना जुहो-
ति', 'पयसा जुहोति' इत्यादिवाक्यैर्गुणा विधीयन्त इति नानेकादृष्टकल्पना-
गौरवम् । अतोऽग्निहोत्रं जुहोती त्ययमुत्पत्तिविधिः, 'पयसा जुहोती'त्याद-
यस्तु गुणविधय इति युक्तम् ।
'सोमेन यजेते'त्यत्र तु रूपवति वाक्ये कर्मोत्पत्तिविधाने स्वीक्रियमाणे
न किंचिदूषणं, पक्षद्वयेऽप्येक स्यादृष्टस्य तुल्यत्वात् । तस्माद्युक्तं सोमेन
यजे तेत्यय मेवोत्पत्तिविधिरित्यलमनया विधिनिरूपणानुगत प्रसङ्गचिन्तया ।
प्रकृतमनुसरामः । तत्सिद्धं विधिः प्रयोजनवन्तमप्राप्तमर्थं विधत्त इति ।
रिति भावः । रूपवति द्रव्यदेवताऽन्यतरबोधके वाक्ये कर्मविधाने संभवति सत-
रूपाभाववति ज्योतिष्टोमवाक्ये किमर्थं कर्मविधानं स्वीक्रियत इत्यर्थः ।
कि एतत्कर्मानुवादेन । दधिवाक्यविहितहोममनूद्य । उत्पत्तिशिष्टेति । उत्पत्तिवा-
क्यविहितेत्यर्थः ।विध्यभावे हेतुमाह-आकांक्षाया इति । द्रव्याकांक्षाया इत्यर्थः । तेनापि
पयसा जुहोती'त्यनेनापि। विशिष्टंपयोरूपगुणविशिष्टम् । अस्तु नाम तत्रापि विशिष्टकर्म-
विधानं, का हानिः ? अति । फलोद्देशेन कर्मणो विधेयत्वेन तस्य च काला-
न्तरभाविनः अदृष्टमन्तरेणासंभवात् एकैकस्यापि कर्मण एकैकमदृष्टमिति अनेकादृष्टकल्प-
नाप्रसङ्ग इत्यर्थः । पक्षान्तरे दोषाभावं दर्शयति — अग्निहोत्रमिति । द्रव्याननुरक्तस्य
शुद्धस्यैव कर्मणोऽग्निहोत्रवाक्येन विहितत्वात् तस्य च द्रव्याकांक्षायां तत्सन्निहितैः दध्या-
दिवाक्यैस्सर्वैरपि अविशेषाद्युगपदेव द्रव्ये समर्पिते 'एकार्थास्तु विकल्पेरन्' इति न्या-
येन कर्मणा द्रव्याणां विकल्पेन ग्रहणादेकदा एकस्यैव यागसाधनत्वा देकमेवादृष्टं कल्प-
नीयमिति नानेकादृष्टकल्पनाप्रयुक्तं गौरवम् । युगपदन्वयाच्च नोत्पत्तिशिष्टत्वादि-
।
कमपीति भावः । सर्वेषामुत्पन्नशिष्टत्वात् युगपदन्वयो युक्त इत्याशयः । खलेकपोतन्या-
येनेति । कणिशानां मर्दनेन धान्यनिष्पादनस्थानं खलम् । तत्र धान्ये प्रसारिते तद्भ-
क्षणार्थ बाला युवानो वृद्धाश्च कृपोता (अन्ये वा पक्षिणः ) युगपदेव पतन्ति । न
क्रमशः । सोऽयं खले कपोतन्यायः ।
पक्षद्वयेऽपोति-गुणविधिपक्षे विशिष्टविधिपक्षे चेत्यर्थः । गुणस्य दृष्टविधयैव
यागस्वरूपनिष्पादकत्वेन नात्रादृष्टकल्पनम् । यागस्य स्वर्गजनकत्वे परं एकमदृष्टं कल्पनी-
यम् । तच्चोभयोस्तुल्यमिति भावः । विधिनिरूपणानुगतप्रसङ्गचिन्तयेति । विधिनिरू-
पणमनुसृत्य तत्प्रसङ्गागता या चिन्ता तयाऽलमित्यर्थः । विधेः प्रयोजनवदर्थबोधकत्व-नि
रूपणमुपसंहरति--तत्सिद्धमिति । PRAPTSTREEPPAM