2023-02-15 04:03:22 by ambuda-bot
This page has not been fully proofread.
♦
निरूपणम् ] 17
सारववेचिनो व्याख्या संवलितः
२१
विशेषणविधेरार्थिकत्वात् । सर्वत्र हि विशिष्टविधौ विशेषणविधिरार्थिकः ।
'ज्योतिष्टोमेने' त्यस्य तूत्पत्तिविधित्वे कर्मस्वरूपं फलसंबन्धश्चेत्युभयं श्रूय-
माणेनैव विधिना विधातव्यमिति दृढो गौरवलक्षणो वाक्यभेदः । यदाहुः -
श्रौतव्यापारनानात्वे शब्दानामतिगौरवम् ।
एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥ इति ।
न च 'सोमेन यजेते' त्यस्योत्पत्तिविधित्वे यद्यपि न वाक्यभेदः, तथापि
मत्वर्थलक्षणा स्यादेवेति वाच्यम् । तस्याः स्वीक्रियमाणत्वात् । लक्षणातो
वाक्यमेदस्य जघन्यत्वात् । लक्षणा हि पददोषः, वाक्यभेदस्तु वाक्यदोषः,
पदवाक्ययोर्मध्ये पदे एव दोषकल्पनाया उचितत्वात् । (१) 'गुणे त्वन्याय्य-
कल्पना' इति न्यायात् ।
श्रत एव 'जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यत्राधानानुवादेन जात-
पुत्रत्वकृष्ण केशत्व विधाने वाक्यभेदात् पदद्वयेनावस्थाविशेषो लक्ष्यत इत्युक्तम् ।
तस्माद्वाक्यभेदप्रसक्तौ लक्षणैव स्वीकार्या । तस्मात् 'सोमेन यजेते' त्ययमेवो-
ग्विधिः कल्प्यते, विशिष्टस्य चैकत्वेन तत्रैव विधिव्यापाराङ्गीकरणात् नानेकविधानकृतो
वाक्यभेद इति भावः । ज्योतिष्टोमवाक्ये तु श्रूयमाणो विधिः उभयमपि संस्पृशतीति
अस्त्येव वाक्यभेदः इत्याह - ज्योतिष्टोमेनेति । अत्र वार्त्तिकं प्रमाणयति- यदाहुरिति ।
श्रौतेति । श्रुत्यैवानेकार्थविधायकत्वे शब्दानां विधिशब्दानां, एकमुक्त्वा एकं विधाय
तावता निवृत्तव्यापाराणां अर्थाक्षेपः विशिष्टविध्यन्यथानुपपत्त्या विशेषणविधिकल्पनमित्य-
र्थः । अतश्च सोमेन यजेतेत्यत्र विशिष्टस्यैकत्वेन तन्मात्रविधानेन विधिव्यापारे उपरते
अर्थात् विशेषणविधिकल्पनेऽपि न दोष इति भावः । सकृच्छ्रतस्य अतएवैकमेवार्थ
विधातुं स्वरसतः प्रवृत्तस्य बलादने कविषयकत्वकल्पनं न युक्तम् । अतो विशिष्टमेकं
विधाय तावतैव चरितार्थे तस्मिन् वैशिष्टयनिर्वाहाय पश्चादनेकविशेषणकल्पनेऽपि न दोष
इति हृदयम् ।
VIE
जघन्यत्वात् निकृष्टत्वात् । जघन्यतामुपपादयति-लक्षणा हीति । उचितत्वादिति ।
पदसमूहात्मकत्वात् वाक्यस्याने कपदात्मके वाक्ये लक्षणा कल्पनापेक्षया एकस्मिन् पदे
तत्कल्पनमेव न्याय्यमिति भावः । गुणेति व्याख्यातपूर्वम् । अतएव लक्षणातो वाक्य-
भेदस्य जघन्यत्वादेव । आधानानुवादेन 'वसन्ते ब्राह्मणोऽग्नीनादधोत' इति वा-
क्यप्राप्तेत्यादि । पदद्वयेनेति । जातपुत्रः, कृष्णकेशः इति पदद्वयेनेत्यर्थः । यद्यप्यत्र
पदद्वयाभ्यामवस्थाविशेषो लक्ष्यते इति क्वचिदुपलभ्यते पाठः । व्याख्यातं च भाट्टालं.
कारकारैरमुमेव पाठमङ्गीकृत्य "द्वयाभ्यामिति जातपुत्रकृष्ण केशपदयोः प्रत्येकमनेकपदा-
त्मकताशय" मिति । तथापि पदद्वयेनेति पाठस्य बहुत्रोपलम्भात् तत्रैव स्वरसतां मन्वा-
नैरस्माभिरयमेव पाठः स्वीकृतः । अवस्थाविशेषः वयोविशेषः । यदा जातपुत्रत्वं
कृष्णकेशत्वं च सम्भाव्यते तादृशे वयसीत्यर्थः । अतः सोमेन यजेतेत्यत्रैव उत्पत्तिविधि-
त्वमङ्गीकार्ये इत्यमुमर्थमुपसंहरति — तस्मादिति ।
१. जे. सू. ९. ३. १५
DEFTH AFFI.F
नावर
Bhandarkar Oriental
Research Institute
FRIG HIS DISAVE