2023-02-15 04:03:20 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः -
[ मत्वर्थलक्षणा-
किंच धात्वर्थस्य न करणत्वेनैवाऽन्वयः (१)गुणकामाधिकरणे आश्रयत्वेन
धात्वर्थान्वयस्योक्तत्वात् । तथाहि-'नोन्द्रियकामस्य जुहुयादित्यत्र न ताव-
द्धोमो विधीयते, तस्य वचनान्तरेण विहित्वात् । नापि होमस्य फल-
सम्बन्धः, गुणपदानर्थक्यापत्तेः । नापि (२) गुणसम्बन्धः फलपदानर्थ-
क्यापत्तेः । (३) नाऽप्युभयसम्बन्धं विधत्ते । प्राप्ते कर्मण्यनेकविधाने वाक्य-
भेदापत्तेः । यदाहुः
प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।
प्राप्ते तु विधीयन्ते बहवोऽध्येकयत्नतः ॥ इति ।
अत्र च कर्मपदवत् गुणेत्युपलक्षणम् । एकोद्देशेनानेकविधाने वाक्य-
भेदात् । अतएव (४) ग्रहैकत्वाधिकरणे "ग्रहं संमाष्ट"त्यत्र ग्रहोद्देशेन
(५) एकत्वसंमार्गयोर्विधाने वाक्यभेदात् ग्रहैकत्वमविवक्षितमित्युक्तम् ।
(६) रेवत्यधिकरणेच 'एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा
पशुकामो ह्येतेन यजेत', इत्यत्र वारवन्तीयस्य रेवतीसंबन्धे अग्निष्टोम-
सामसम्बन्धे फलसम्बन्धे च विधोयमाने वाक्यभेदाद्भावनोपसर्जनं भावना-
।
अपि निराकरणेन तदप्यधिकरणं प्रयोजनवत् भविष्यति, इत्यत आह–किञ्चेति ।
वचनान्तरेण अग्निहोत्रं जुहुयादित्यनेन । प्राप्ते कर्मणीति । अयमत्र वार्त्तिका-
शयः - भावनैव सर्वत्र प्रधानभूता, तत्रैव च सर्वकारकाणामन्वयः इत्युक्तम्-
"भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया ।
अनेकगुणजात्यादिकार कार्थानुरञ्जिता" ॥
● इत्यादिना । सा यत्राऽप्राप्ता तत्र तस्या एव विधेयत्वेन तत्र च सर्वेषां कार कारणां वैशि-
ष्ट्यसंभवेन अनेककारकविशिष्टा एका भावना विनैव वाक्यभेदादिकमेकेन विधिव्यापारेण
विधातुं शक्यते । यत्र च सा प्राप्ता तत्र पुनः तस्या विधेयत्वासंभवात्कारकाणामेव च
विधेयत्वात्तेषां परस्परं वैशिष्ट्याभावात् पृथक् पृथक् विधिव्यापारस्याऽभ्युपगमनीयत्वेन
विध्यावृत्तिलक्षणो वाक्यभेदः प्रसज्यत इति नाऽनेकगुण विधानं संभवतीति । एकयत्नतः
एकेन विधिव्यापारेण । कर्मपदवदिति । यथा कर्मपदं प्राप्तमात्रोपलक्षकं एवं गुणपद-
मपि विधेयमात्रोपलक्षकमित्यर्थः । फलितमाह - एकेति । अत एव कर्मपदस्योपलक्ष-
णत्वादेव । ग्रहं सम्माष्टृति । सोमावसिक्कं पात्रं दशापवित्राख्येन वासःखण्डेन शोधय-
तीत्यर्थो मिश्रमते । राणकमते तु-धारातः पात्रे सोमरसस्य ग्रहणकाले पात्रस्य बहि-
लग्नानां विप्रषां प्रोञ्छनं कुर्यादित्यर्थः । पात्रवाचकत्वमेव युक्ततरं मन्यामहे । ग्रहो-
द्देशेन ग्रहैर्जुहोतीतिवाक्यप्राप्तग्रहोद्देशेन । ग्रहैकत्वं ग्रहगत मेकत्वम् ।
-
गुणपदस्योपलक्षणत्वे फलमाह-एतस्यैवेति । इयमत्र स्थितिः। "त्रिवृग्निष्टु-
दग्निष्टोमः' इत्यनेन प्रथमं त्रिवृत्स्तोमयुक्तः अग्निष्टोमसंस्थाकः अग्निष्टुन्नामको यागो
विहितः । तस्य "तस्य वायव्यास्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो
Bhandarkar Oriental
Research Institute
३ नाऽप्युभयसम्बन्धः,
६२.२.१२. RIP
१ २.२.११.
४३.१.७
२ गुणसम्बन्धं विधत्ते ।
५ एकत्वसम्मार्गविधौ..