2023-02-15 04:03:20 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनी व्याख्यासंवलितः
होमस्य करणत्वं श्रयते, तद्वाचकतृतीयाद्यभावात् । कल्प्यत इतिचेन्न; गुण-
स्य (१) तत्र विधित्सितत्वेन साध्याकाङ्क्षायां साध्यत्वकल्पनाया एवोचित-
त्वात् दध्ना होमं भावयेदिति । न चाऽयमस्ति नियमो भावनायां धात्वर्थस्य
करणत्वेनैवाऽन्वयो न प्रकारान्तरेणेति; षष्ठाद्यपूर्वपक्षानुत्थानापत्तेः । षष्ठाद्ये
हि "यजेत स्वर्गकाम" इत्यादौ (२) प्रत्ययवाच्यायां वक्ष्यभाणार्थभावनायां
समानपदश्रुत्या यागस्य भाव्यत्वमाशङ्कयाऽपुरुषार्थत्वेन परिहृतम् । यदि च
धात्वर्थस्य करणत्वेनैव भावनायामन्वयः तदा भाव्यत्वशङ्कव नोदेतीति
व्यर्थं षष्ठाद्यमधिकरणमापद्येत ।
किं च(३) वाजपेयाधिकरणे तन्त्रसम्बन्ध शङ्कय परिहृतः । धात्व-
र्थस्य करणत्वेनैवाऽन्वये तन्त्रसंबन्धशव न स्यात् । तन्त्रसंबन्धशङ्कापरि-
हारौ च तत्र व्याख्यातौ ।
त्वेनाऽन्वये किं मानम् ? नहि तत्रापि तृतीया श्रूयते, अथ तृतीया श्रवणाभावेऽपि अर्था
पत्या "प्रकृतिप्रत्ययौ प्रत्ययार्थ" मिति स्मृत्या च धातुनैव लक्ष्यत इति कल्प्यत इत्यु-
च्येत, तथैव ममापीऽत्याशङ्कते-कल्यत इतीति । उचितत्वादिति । अन्यथा ना
कांक्षितकल्पनारूपो दोष पद्येति भावः । कल्पितमर्थतो ऽनुवदति- दध्नेति । नन्वेवं
भावार्थाधिकरणविरोधः, तत्र धात्वर्थस्य भावनायां करणत्वेनान्वयस्यैव सिद्धान्तितत्वात्
इत्यत ग्राह-नचाऽयमिति । षष्ठेति । षष्ठाध्यायस्य प्रथमाधिकरणीयपूर्वपक्षेत्यर्थः ।
षष्ठ इति । अधिकरण इति शेषः । वक्ष्यमाणेत्यतः पूर्व भावनानिरूपणावसरे इति
शेषपूरणम् । अपुरुषार्थत्वेनेति । साक्षादिष्टे इष्टसाधन एव वा पुरुषस्य प्रवृत्युदयात्
यागादेः द्रव्यव्ययायाससाध्यत्वेन स्वयमनिष्टत्वात् पुत्रपश्वादिवद्वा इष्टसाधनत्वेन प्रमाणा-
न्तरेणाऽज्ञातत्वाच्च । यद्यपि यत्नात्मिकायां भावनायां भाव्यो याग एव, न तु स्वर्गादिः,
यत्नेन हि याग एव साध्यते, यागानुकूलत्वात् यत्नस्य । साधिते च यागे स्वर्गों भवति ।
न तत्सिध्यर्थे यत्नान्तरमस्ति । तथापि नासौ यत्नं प्रत्युद्देश्यः पुरुषार्थत्वात् । अतश्च
यागानुकूलयत्नात्मिकायामपि भावनायां उद्देश्यतारूपभाव्यत्वं स्वर्गस्यैव । यथा वेतन-
कामः पचेत् इत्यत्र पाकानुकूलयत्नात्मिकायां भावनायां वेतनस्यैवोद्देश्यत्वं
PPPF
तद्वत् इति भावः । TR IDhe
ननु षष्ठाद्याधिकरणस्य न धात्वर्थगत करणत्वनिराकरणे तात्पर्यम्
तात्पर्यम् । किन्तु
स्वर्गादेः पुरुषार्थस्य भाव्यत्वबोधन एव, अत एव "स्वर्गकामस्य यागकर्मोपदेशः
स्यात् ; अतः स्वर्गः प्रधानतः, कर्म गुणतः" इति भाष्यम् "पुरुषार्थस्यैव भा.
व्यत्वम् विधिश्रुतिबलाध्यवसोयते" इति शास्त्रदीपिका च संगच्छते । एवञ्च
तावन्मात्रेण चरितार्थस्य न तस्य वैयर्थ्यम्, तह-किञ्चेति । वाजपेयाधिकरण
इति । "वाजपेयेन स्वाराज्यकामो यजेतेति वाक्यमुदाहृत्य यत्र विचारितं, तद-
धिकरणे प्रथमचतुर्थषष्ठ इत्यर्थः । तन्त्रसम्बन्धः । धात्वर्थस्थ तन्त्रेण फलेन गुणेन च
संबन्धः । तत्र वाजपेयाधिकरणे । ननु मन्दविषन्यायेनोत्थिताया श्राशङ्कायाः स्वल्पाया
१ स्यात्र २ प्रत्ययवाच्यवक्ष्यमाणार्थभावनायां । ३१.४.६.
rien
Research Institute