2023-02-15 04:03:19 by ambuda-bot
This page has not been fully proofread.
१०
मीमांसान्यायप्रकाशः
[ मत्वर्थलक्षण-
वान्वयोऽस्तु, (१)कृतं मत्वर्थलक्षणया इति चेत्-न, सोमेनेति तृतीयया कर-
णत्ववाचिन्या सोमस्येतिकर्तव्यतात्वानभिधानात् । तत्र यदीतिकर्तव्यतात्वं
लक्षणयोच्येत, ततो वरं सोमपद एव प्रकृतिभूते मत्वर्थलक्षणा। '(२)गुणे
त्वन्याय्यकल्पने'ति न्यायात् ।
अथ (३) 'वेदो वा प्रायदर्शनात्' इत्यधिकरणोक्ता संजात विरोधित्वन्याये-
नेति । करणत्ववाचिन्येति । 'कर्तृकरणयोस्तृतीया' इति सूत्रेण तथैवानुशासनात्
व्यवहाराच्चेति भावः । मास्तु शक्तिः, लक्षणा स्वीक्रियते, तह-तत्रेति । तृती-
यायामित्यर्थः । गुणे त्वन्याय्येति । सूत्रस्यैकदेशोऽयं नवमतृतीयपञ्चमस्थस्य "विप्र-
तिपत्तो विकल्पः स्यात् गुणे त्वन्याय्यकल्पनैकदेशत्वात्" इति सूत्रम् । तत्र हि
पशावग्नीषोमीये श्रुतयोः पशुकण्ठगतपाशविमोचनार्थयोः 'अदितिः पाशं प्रमुमोक्तु
"अदितिः पाशान् प्रमुमोक्तु" इत्येकवचनबहुवचनान्तमन्त्रयोः मध्ये बहुवचनान्त-
मन्त्रस्य प्रकरण एव निवेश: ? उत यत्राऽनेकपशुकरणकयागस्थले पाशानेकत्वं तत्र
मन्त्रोऽयमुत्कृष्यतामिति सन्दिय प्रकृते पाशबहुत्वाभावात् बहुवचनान्तमन्त्रस्य एकस्मि-
न्नसमवायादुत्कर्षं पूर्वपक्षयित्वा – "सत्वप्रधानानि नामोनी"ति निरुक्तस्मृत्या लिंङ्ग-
संख्याद्यपेक्षया प्रातिपदिकार्थस्य प्राधान्यावगतेः न गुणभूतसंख्यानुरोधेन प्रधानस्यो-
त्कर्षो युक्तः; किन्तु बहुवचनस्यैवैकत्वे लक्षणामङ्गीकृत्य प्रकृत एव निवेश इति सिद्धा-
न्तितम् । तथा च सूत्रस्याऽयमर्थः-विमोचनीयपाशस्यैकत्वात् मन्त्रस्य पाशबहुत्वाभिधा-
यित्वाच्च विप्रतिपत्तौ विरोधे सति न मन्त्र उत्क्रष्टव्यः; किन्तु एकवचनान्तमन्त्रेणाऽस्य
विकल्पः स्यात् उभयोरपि पाशविशिष्ट कर्मप्रतिपादकत्वेन समत्वात्, गुणे तु बहुव-
चने तु अन्याय्यकल्पना एकत्वे लक्षणाकल्पना एकदेशत्वात् बहुवचनस्यैकदेश-
त्वात् ततश्च एकदेशबहुवचनानुरोधेन नोत्कर्ष इति । एवं च तन्न्यायेनाऽत्र "प्रकृति-
प्रत्यया" विति स्मृत्या प्रातिपदिकार्थापेक्षया विभक्त्यर्थस्य प्राधान्यावगमात् न विभक्तौ
प्रधानभूतायामितिकर्त्तव्यतावलक्षणा; किन्तु गुणभूतप्रातिपदिक एव मत्वर्थलक्षणा
युक्तेत्याशयः । उभयोः प्रत्ययार्थत्वाविशेषेऽपि दृष्टान्ते संख्यायाः प्रातिपदिकार्थापेक्षया
गुणत्वं, दान्तिके कारकस्य प्रातिपदिकार्थापेक्षया प्राधान्यमिति विवेक्तव्यम् ।
>
पुनः न्यायान्तरावलम्बेन पूर्वपक्षी प्रत्यवतिष्ठते- अथेति । 'वेदो वा प्रायद-
शना' दिति तृतीयाध्यायतृतीयपादीयप्रथमाधिकरणस्थसिद्धान्तसूत्रमिदम् । "प्रजापति -
रकामयत प्रजायेयेति स तपोऽतप्यत । तस्मात्तेपानात्रयो देवा श्रजायन्त-
अग्निर्वायुरादित्यः । ते तपोऽतप्यन्त । तेभ्यस्तेपानेभ्यस्त्रयो वेदा अजायन्त-
अग्नेॠग्वेदो वायोर्यजुर्वेद आदित्यात् सामवेदः । तस्माद्यत्किञ्चिडचा क्रि-
यते तदुच्चैः, यद्यजुषा, तदुपांशु, यत्साम्ना तदुच्चैः", इति श्रुतम् । तत्रोपक्रमे
ऋग्वेदादय उपसंहारे ऋगादयश्च श्रूयन्ते । तदत्र विधीयमान उच्चैस्त्वादिः ऋगादि-
धर्मः, उत तत्तद्वेदधर्म इति सन्दिह्य, विध्युद्देशे ऋगादिपदानामेव श्रवणात् तदनुरो-
धेनैवाऽर्थवादस्थो वेदशब्दो नेय इति अर्थवादस्थे वेदपदे ऋमात्रलक्षणामङ्गीकृत्य
२९-३-५ ३३-३-१
राजवि
नाय श्रीम
१ किंम०
-
4