This page has not been fully proofread.

See Br
 
निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
न हि मत्वर्थलक्षणां विना सोमस्याऽन्वयः सम्भवति । यदि तावत्सोमयाग-
योरैकरूप्येण भावनायां करणत्वेनैवाऽन्वयः- 'सोमेन यागेनेटं भावयेत्' इति,
तत उभयविधाने वाक्यभेदः, सोमस्य याग वत्फलभाव नाकर णत्त्वेन प्राधान्या-
पातश्च, यागार्थत्वानुपपत्तिश्च, (१) यागे द्रव्यानुपपत्तिश्च, प्रत्ययवाच्यफलभाव-
नायाः समानपदोपात्तेन यागेन करणाकाङ्घानिवृत्तत्वेन भिन्नपदोपात्तस्य
सोमस्य करणत्वेनाऽन्वयानुपपत्तिश्च स्यात् ।
 
यदि च वैयधिकरण्येनान्वयः; तत्र न तावत् 'यागेन सोमम्' इत्यन्वयः,
समानपदोपात्तत्वात्प्र (२)त्ययवाच्यफलभावनायां करणत्वेनाऽन्वितस्य यागस्य
सोमकर्मकभावनान्वयानुपपत्तेः, यागस्य सोमार्थत्वा (३) पाताच्च । न चेष्टाप-
for cadd
 
ग्रह-न होति । सोमयागयोरुभयोरपि सामानाधिकरण्येनाऽन्वयोङ्गीक्रियते ?, वैयधि-
करण्येन वा ?, नाऽऽद्य इत्याह-
यदि तावदिति । ऐकरूप्येण इत्यस्य विवरणं करण-
त्वेनेति । उभयविधाने सोमस्य यागस्य चोभयोः पृथक्पृथविधाने । ननु अप्रातत्वा-
द्भावनाया अनेकविशिष्टभावनाविधानं सम्भवत्येव । उक्तं हि वार्तिककृता-"अप्राप्ते तु
विधोयन्ते बहवोऽप्येकयनत" इति, ताह- सोमस्येति । फलभावनाकर-
णत्वेन फलभाव्यकभावनायां करणत्वेन । प्राधान्यापात इति । यथा यागस्य साक्षात्फलं
प्रति करणत्वं, तद्वत् सोमस्याऽप्यापत्त्या उभयोः प्राधान्यापात इत्यर्थः । ततश्च सोमस्य
साक्षात्कलजनकत्वेनादृष्टार्थ वाऽपत्त्या प्रतिनिधिर्न स्यादिति भावः । यागार्थत्वानुप-
पत्तिरिति । यागाङ्गत्वानुपपत्तिरित्यर्थः । ननु यागाङ्गत्वाभावेऽपि सोमयागयोः एक-
वाक्योपादानात् श्रारुण्यवत् परस्परसम्बन्धोऽस्तु, तह-यागे द्रव्येति । "गोदो-
हनेन पशुकामस्य प्रणये"दित्यादौ फलार्थे विहितस्य गोदोहनस्य प्रसङ्गात्प्रणयनोप-
कारकत्वेऽपि यथा नित्यप्रयोगे न गोदोहनस्य प्राप्तिः, तद्वदत्र फलार्थ विहितस्य सोमस्य
प्रसंगाद्यागोपकारकत्वेऽपि न तस्य नित्यप्रयोगे प्राप्तिः स्यादिति यागे द्रव्याभावः स्यादेवे-
ति भावः । ननु नैतत्सम्भवति, यागविधिबलादेव द्रव्यप्राप्तेः, देवतोद्देश्यकद्रव्य-
त्यागो हि यगः । स च द्रव्यमन्तरा न सम्भवतीति यत्किंचित् द्रव्यमाक्षेपप्राप्तमेव;
अत एव "सर्वे द्रव्यविधयो नियमविधय"इत्यभियुक्तोक्तिस्संगच्छते। तो नयागे
द्रव्याभाव इत्यस्वरसादाह-प्रत्ययेति । यागस्य समानपदोपात्तत्वनिर्वाहाय भावनायाः
प्रत्ययवाच्यत्वख्यापनम् ।
 
एतावता सामानाधिकरण्येनाऽन्वयाभावमुपपाद्य वैयधिकरण्येनाऽपि अन्वयाभावमु
पपादयति-यदि चेति। वैयधिकरण्येनाऽन्वये प्रकारद्वयमस्ति । यागस्य करणत्वं सोमस्यो-
द्देश्यत्वमित्येकः । सोमस्य करणत्वं, यागस्योद्देश्यत्वमित्यपरः । तत्राऽऽद्यं दूषयति-तत्रेति ।
समानपदोपात्तत्वात् एकपदोपात्तत्वात् 'यजेत' इत्येकेन पदेन प्रकृत्यंशेन यागस्य प्रत्य-
यांशेनच भावनाया बोधनादिति भावः । ननु'भूतं भव्यायोपदिश्यते' इति न्यायेन सि-
द्धस्य सोमादेः फलभावनाकरणत्वेनाऽन्वये सति 'इतरत्तदर्थ' मितिन्यायेन यागस्य सोमार्थ-
Bhandarkar Oriental
Research Institute
 
१ यागीयद्रव्यत्वानुपपत्तिश्च । २ प्रत्ययवाच्यभावनाकरणत्वेन । ३ पत्तेश्च