This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ मत्वर्थलक्षणा
 
जुहुयात्स्वर्गकामः' इति विधिरप्राप्तं प्रयोजनवद्धोमं विधत्ते-अग्निहोत्रहोमेन
स्वर्गं भावयेदिति ।
 
यत्र तु कर्म प्रकारान्तरेण प्राप्तं, तत्र तदुद्देशेन गुणमात्र (१) विधानम् ।
यथा 'दध्ना जुहुयात्' इत्यत्र होमस्य 'अग्निहोत्रं जुहुयात' इत्यनेन प्राप्तत्वा-
द्धोमोद्देशेन दधिमात्रविधानम् - दध्ना होमं भावयेदिति ।
 

 
विशिष्टविधिनिरूपणम् )
 
यत्र तूभयमप्राप्तं तत्र विशिष्टं विधत्ते । तदुक्तम्–(२) 'न चेदन्येन शिष्टाः
इति । शिष्टा उपदिष्ट। इत्यर्थः । यथा 'सोमेन यजेत' इत्यत्र सोमयागयोरप्रा-
तत्वात्सोमविशिष्टयागविधानम् 'सोमवता यागेनेष्टं भावयेत्' इति । न चो-
भयविधाने वाक्यभेदः, विशिष्टस्यैकत्वात् ।
 
(मत्वर्थलक्षणानिरूपणम् )
 
* विशिष्टविधौ च मत्वर्थलक्षणा। सोमपदेन मत्वर्थो लक्ष्यते-सोमवतेति ।
अप्राप्तं प्रमाणान्तरेणाऽज्ञातम् । अग्निहोत्रं जुहुयात्स्वर्गकाम इति । यद्यपि नेदं
उत्पत्तिवाक्यमग्निहोत्रहोमस्य, "अग्निहोत्रं जुहेति" इति वाक्यान्तरस्यैव तत्त्वाङ्गीकारात्
तथाऽपि फलाविधेयत्वस्य चतुर्थे साधयिष्यमाणत्वात् अधिकारवाक्येऽपि फलोद्देशेन
कर्मण एव विधानात् स्पष्टतया फलवत्त्वज्ञापनार्थमिदमुक्तम् ।
 
515
 
नचेदन्येनेति । प्रथमाध्यायचतुर्थपादीय सूत्रैकदेशोऽयम् । "तदुगुणास्तु विधोये
रन् अविभागाद्विधानार्थे न चेदन्येन शिष्टाः" इति समग्रसूत्रम् । इष्टं भावयेदिति ।
नन्वत्र सोम-याग-भावनावाचिनामेव शब्दानां श्रवणात् इष्टवाचकपदाश्रवणादिष्टं भाव-
येदिति-कथं बोधः इति चेत् - विधिश्रवणा देवेति ब्रमः । विधिर्हि प्रवर्त्तनात्मकः स्वस्य
प्रवर्त्तकत्वसिद्धयर्थे स्वविषयस्य यागादेरिष्टसाधनत्वमाक्षिपति, तद्यदि उत्पत्तिवाक्य एव
फलविशेषः श्रूयेत तत्राऽऽक्षेपतः पूर्वमेव फलसम्बन्धोऽवगत इति न तत्राऽऽक्षेपकत्वम्, यत्र
तु स न श्रूयते तत्र सामान्यत इष्टसाधनत्वमाक्षिप्यते । आक्षितं च तस्मिन् फलविशेष
अधिकारवाक्येन समर्प्यते । तो युक्त एवोत्पत्तिवाक्ये इष्टं भावयेदिति बोधः । ननु
यदि सोमस्य यागस्य चोभयोर्विधानं, तदा उभयत्र विधिव्यापारः कल्पनीयः, स च
विध्यावृत्तिमन्तरा न संभवति, तो "यागेन भावयेत्, सोमेन भावयेत्" इति वाक्यद्वयं
कल्पनीयम्, ततश्च वाक्यभेदः स्फुट इत्याशङ्कयाऽऽह-न चेति । विशिष्टस्यैकत्वा-
दिति । सोमविशिष्टो यागो विधीयत इत्युक्तौ विशेष्य एव विधिप्रवृत्तेः तस्य चैकत्वा-
न्नानेकविधानकृतो वाक्यभेद इत्यर्थः । न च विधेर्विशेष्यभूतयागमात्रपर्यवसायित्वे
''सोमेन'" इति व्यर्थमिति वाच्यम् । तस्याऽर्थिक विशेषणविधिकल्पकत्वात् । ननु
सोम-यागयोरुभयोरपि कारकत्वेन परस्परान्वयासंभवेन कथं वैशिष्ट्यमत आह-
विशिष्टविधाविति । सोमवतेति । सोमशब्देन सोमविशिष्टो लक्षणयोच्यते । तस्य
पार्ष्टिको यागेन सहाऽभेदसम्बन्धः । सच यागः फलभावनायां करणम् । तदेतदाह-सोम-
वतेति । नन्वत्र लक्षणामन्तरा उपपत्तौ सत्यां किमर्थं गुरुभूता लक्षणाऽऽश्रीयते, अत
२ जै. सू. १. ४. ९.
 
१ त्रं विधत्ते ।
 
11
 
SOOND