This page has not been fully proofread.


 
निरूपणम् ]
 
सारविवेचिनो व्याख्यासंवलितः
 
स्वार्थप्रतिपादने प्रयोजनम (१) लभमाना लक्षणया क्रतोः प्राशस्त्यं प्रतिपाद-
यन्ति । स्वार्थमात्रपरत्वे आनर्थक्यप्रसङ्गात् । न चेष्टापत्तिः, अध्ययनविध्यु-
पात्तत्वेनाऽऽनर्थ क्यानुपपत्तेः । तथा हि -"स्वाध्यायोऽध्ये तव्यः" इत्यध्ययन-
विधिः सकलस्य वेदस्याध्ययनकर्तव्यतां बोधयन् सर्वो वेदः प्रयोजनवदर्थ-
पर्यवसायीति सूचयति, निरर्थकस्याऽध्ययनानुपपत्तेः ।
 
स च वेदो विधिमन्त्रनामधेय निषेधार्थवादात्मकः । तत्र विधिः प्रयो-
जनवदर्थविधानेनाऽर्थवान् । स चाऽप्राप्तमर्थं विधत्ते । यथा 'अग्निहोत्रं
स्वार्थप्रतिपादन इति । स्वघटकपदशक्त्या यादृशोऽर्थोऽवगम्यते तत्प्रतिपादन इत्यर्थः ।
प्रयोजनमलभमाना इति । तदा तेषां भूतार्थमात्रकथनेन प्रवृत्तिविशेषाज न कत्वेन
प्रयोजनानवाप्तेरित्यर्थः । क्रतोः प्राशस्त्यमिति । स्वसन्निहितविधिविहितकर्मगतं प्राश-
स्त्वमित्यर्थः। इदमुपलक्षणम् । 'बर्हिषि रजतं न देय'मित्यादौ निषेधस्थले 'सोऽरोदीत्'
इत्याद्यर्थवादतो रजतदाननिन्दाया अपि प्रतीयमानत्वात् । ननु नाध्ययनविध्युपादानमा-
त्रेणाऽर्थवादानां प्राशस्त्यलक्षकत्वं संभवति, अध्ययनविधिना हि नाऽर्थज्ञानोद्देशेनाध्ययनं
विधीयते, तस्य लोकसिद्धत्वात् ; नाऽप्यवघातादिवत् नियमार्थत्वेन, अनारभ्याधीतत्वा-
दस्य ऋतूपस्थित्यभावात्, अव्यभिचरितक्रतुसम्बन्धाभावाच्च न जुह्वादिवत्क्रतूपस्थितिः;
अतो विश्वजिन्न्यायेन स्वर्गफलार्थ तैवाऽस्य वक्तव्या । एवं च अक्षरराशिग्रहणेनैव विध्यु-
पपत्तावर्थज्ञानार्थत्वमेवास्य दूरापास्तमिति कुतः प्राशस्त्यलक्षणा, इत्यता - तथा
हीति । अयं भावः "स्वाध्यायोऽध्येतव्य" इत्यत्र कर्मणि तव्यप्रत्ययो विहितः स्वा-
ध्यायस्याऽध्ययनकर्मत्वं ब्रूते । तच्चतुर्विधम्-उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् । प्रकृते
चाऽन्यस्याऽसम्भवात्संस्कारख्यं तदिति पर्यवस्यति । एवञ्च स्वाध्यायस्याऽध्ययनसंस्कारोऽत्र
विधीयतॆ । संस्कृतस्य स्वाध्यायस्योपयोगापेक्षायां न तावत् स्वर्गार्थत्वं कल्पयितुं
युक्तम्; दृष्टे सम्भवत्यदृष्टकल्पनाया अन्याय्यत्वात्, नाऽपि केवलार्थज्ञानार्थत्वम्; तस्य
भारतादाविव लोकत एव सिद्धत्वात् गृहीतपदपदार्थसंगतिकस्याऽऽपाततोऽर्थप्रतीते-
र्जायमानत्वाच्च; अतः प्रमाणान्तराप्रमितप्रयोजनवदर्थज्ञानोद्देशेन स्वाध्यायो विनियुज्यत
इत्यङ्गीकर्त्तव्यम्; एवं चाऽर्थवादस्याऽपि स्वध्यायत्वाविशेषात्तदध्ययनस्याऽपि फलवद-
र्थज्ञानार्थत्वमावश्यकमिति स्वशक्यार्थप्रतिपादने प्रयोजनाभावात् फलवत्प्राशस्त्यप्रति-
पादकत्वं बलादायातमिति । निरर्थकस्येति । "प्रयोजनमनुद्दिश्यन मन्दोऽपि
प्रवर्त्तते" इति न्यायेन सर्वस्याऽपि प्रेक्षावतः फलवत्येव प्रवृत्त्युदयादिति भावः ।
 
एवं वेदस्य सामान्यतः प्रयोजन वत्त्वमुपपाद्य तद्गतस्य एकैकस्यापि भागस्य विशेषतः
प्रयोजनवत्त्वमुपपादयिष्यन् प्रथमतो वेदं पञ्चधा विभजते-स इति । यः स्वाध्यायविध्य-
न्यथानुपपत्तिकल्पितेन विधिना फलवदर्थशानोद्देशेन विनियुक्तः, स इत्यर्थः । एवं पञ्चधा
वेदं विभज्य तत्र एकैकस्याऽपि भागस्य प्रयोजनवत्त्वं निरूप्य तावता ग्रन्थं परिसमापयि-
ष्यन् प्रथमं प्रथमोद्दिष्टस्य विधिभागस्य प्रयोजनवत्त्वं निरूपयति-तत्र विधिरिति ।
प्रयोजनवदर्थेति । प्रयोजनं स्वर्गादिरूपं फलं, तद्वान् यागादिः, तद्विधानेनेत्यर्थः ।
 
FOUNDED
 
१ अनुपलभमाना ।