2023-02-15 04:03:18 by ambuda-bot
This page has not been fully proofread.
लक्षणम् ]
सारविवेचिनीव्याख्या संवलितः
,
लिङत्वांशेनोच्यते। (१)लिङ् श्रवणे 'श्रयं मां प्रवर्तयति' 'मत्प्रवृत्त्यनुकूलव्यापा-
रवानयम्' इति(२) नियमेन प्रतीयमानत्वात् । यश्च यस्मात्प्रतीयते तत्तस्य
वाच्यम्, यथा गोशब्दस्य गोत्वम् । स (३) च प्रवृत्त्यनुकूलव्यापारविशेषो
लोके पुरुषनिष्ठोऽभिप्रायविशेषः, वेदे तु ( ४ ) पुरुषाभावाल्लिङा दिशब्द निष्ठ
एव । नहि वेदः पुरुषनिर्मितः ।
(५) "वेदस्याऽध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । शालिवाह
वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥"
इत्यादिना वेदापौरुषेयत्वस्य (६) साधितत्वात् । 'यः कल्पः स कल्पपूर्व:
इति न्यायेन संसारस्याऽनादित्वादीश्वरस्य च सर्वज्ञत्वादीश्वरो गतकल्पीयं
वेदमस्मिन् कल्पे स्मृत्वा उपदिशतीत्येतावतैवोपपत्तौ प्रमाणान्तरेणार्थमुप-
लभ्य रचितत्वकल्पनानुपपत्तेश्च । ततश्च पुरुषाभावाच्छन्दनिष्ठैव सा । अत
एव शाब्दीभावनेति व्यपदिशन्ति ।
३
यागाद्यनुकूला वा, तदनुकूलो यो व्यापारविशेषः प्राचार्यादिनिष्ठ: शब्दनिष्ठो वा सा
शाब्दीभावनेत्यर्थः । लिङ्त्वांशेनेति । लिङ्वरूपशक्ततावच्छेदका वच्छिन्नत्वेन रूपेणे-
त्यर्थः । कुत एतत् ? श्रत ग्राह-लिङश्रवण इति । नियमेन अव्यभिचारेण ।
गोत्वमिति । एतेन प्राकृतिशक्तिवादिनो मीमांसका इति सूचितम् । प्रवृत्यनुकूलः
गवानयनादिविषयकप्रवृत्त्यनुकूलः । पुरुषनिष्ठः श्राचार्यादिप्रेरक पुरुषनिष्ठः । पुरुषा-
भावात् निर्मातृपुरुषशून्यत्वात् । लिङादीत्यादिपदेन लेट्लोट्तव्यप्रत्ययानां ग्रहणम् ।
स इत्यनुषज्यते । निर्मातृपुरुषाभावमनुमानेन साधयति – वेदस्येति । अत्र सर्व-
शब्देन निखिलशाखासम्बन्धिवेदाध्ययनं गृह्यते, न तु निखिलकालवृत्ति, अतश्च
अतीत कालवृत्तिनिखिलशाखाध्ययनस्य पक्षत्वं बोध्यम् । एवं गुर्वध्ययनपूर्वकत्वं साध्यम्,
वेदाध्ययनत्वं हेतुः, आधुनिकाध्ययनस्य दृष्टान्ततेति विवेकः । इत्यादिनेत्यादिपदेन
'भारतेऽपि भवेदेवं कर्तृस्मृत्या तु बाध्यते । वेदेऽपि तत्स्मृतिर्या तु सार्थवाद-
निबन्धना' इत्यादयो गृह्यन्ते । साधितत्वादिति । वार्तिके वाक्याधिकरण इति शेषः ।
ननु वेदस्येश्वरकर्तृकत्वमेवाऽस्तु, तस्य सर्वज्ञत्वेनाऽतीन्द्रियधर्मादिविषयकज्ञानसम्भवेन
वेदकर्तृत्वसम्भवात् । अतश्च सिद्धं पौरुषेयत्वमित्यत - यः कल्प इति । अयं भावः-
ईश्वरः किं यस्मिन् कस्मिंश्चित् कल्पे रचयति वेदम् ? उत प्रतिकल्पम् ? नाद्यः, तदभाव-
वति कल्पे वेदैकगग्यधर्माधर्मज्ञानाभावेन धर्माधर्मानुष्ठानाभावात् कल्पान्तरोत्पन्न प्राणिनां
सुखदुःखोत्पत्तिस्तदनुभवो वा न स्यात् । अनादौ संसारे क्व कल्पे रचनम् ? क्व कल्पे त-
स्यैवोपदेशः इति नियन्तुमशक्यत्वाच्च । न द्वितीयः, एकस्मिन् कल्पे स्थितं वेदं
सर्वेष्वपि कल्पान्तरेषु सर्वज्ञत्वादुपदिशतीत्येवं कल्पनालाघवे सति प्रतिकल्पं रचना-
कल्पनागौरवाङ्गीकरणस्यान्याय्यत्वात् । "धाता यथापूर्वमकल्पयत्" इत्यादि श्रुतिर
प्यत्राऽनुकूला । पक्षद्वयेऽपि वाक्यरचनाया जन्यज्ञानपूर्वकत्वदर्शनेन ईश्वरस्याऽपि जन्यज्ञा-
स्वावधीततस्तु ॥
१ लिङश्रवणे । २ इति हि नियमेन प्रतीयते । ३ सच व्यापरविशेषः ।
५ लो. वा. वाक्याधिकरणे १. १. ६. पृ० ९४५.
६ समर्थितत्वात्
Bhandarkar Oriental
४ लिङा दिनिष्ठ एव ।