This page has not been fully proofread.

-
 
1
 
मीमांसान्यायप्रकाशः
 
[ धर्म-
विधोयमानोऽर्थो धर्मः । यथा यागादिः । स हि 'यजेत स्वर्गकाम' इत्यादिवा-

क्येन स्वर्गमुद्दिश्य विधीयते । तथा हि-यजेतेत्यत्राऽस्त्यंशद्वयम्, यजिधातुः

प्रत्ययश्च । ([^)] तत्र प्रत्ययेऽप्यस्त्यंशद्वयम्, प्रख्यातत्वं लिङ्त्वं च । श्राख्या-

तत्वं च दशसु लकारेषु विद्यते । लिङ्त्वं पुनः केवलं लिङयेव । तत्राऽऽख्यात-

त्वलिङत्वाभ्यां भावनैवोच्यते । भावना नाम-- भवितुर्भवनानुकूलो भावक.

व्यापारविशेषः । ([^)] सा च द्विविधा ([^)] शाब्दी भावना प्रार्थी भावना चेति ।

 
तत्र पुरुषप्रवृत्त्यनुकू ([^) ]लभावकव्यापारविशेषः शाब्दी भावना । सा च

 
[commentary]
 
धर्मप्रामाण्येऽपि न क्षतिः । ननु 'चोदनालक्षणोऽर्थो धर्मः' इति पारमर्षं धर्मलक्षण-

सूत्रम्, चोदनाशब्दश्च "चोदनेति क्रियायाः प्रवर्त्तकं वचनमाहुः" इति भाष्यात्

"चोदना चोपदेशश्र विधिश्चैकार्थवाचिनः" (श्लोक वा० पृ० २११) इति वार्त्ति-

काच्च विधिवाक्यमेव बोधयतीति विधिबोधितत्वमेव धर्मलक्षणे वक्तव्यं, तत्त्यक्त्वा कथं

वेदबोधितत्वमुच्यते इति चेत्, न चोदनामात्रगम्यत्वं धर्मस्य, किन्तु चोदनादिप्रमाणा-

ष्टकगम्यत्वमेव, अत एव भगवता भाष्यकारेण प्रथमाध्यायार्थप्रतिज्ञावसरे "को धर्मः,

कथंलक्षणकः," इति सामान्यत एव प्रतिज्ञा कृता । अत एव च प्रमाणाध्याये प्रथमे

स्मृत्याचारादीनां विचार: संगच्छते । सूत्रं तु प्रथमपादार्थप्रतिज्ञापरमिति ॥ 'न हिंस्यात्'

इत्यादि निषेधविषयाणां हिंसादीनामपि निषेधवाक्यरूपचोदनाविषयत्वात् तेषां धर्मत्वव्यु-

दासार्थमर्थपदम् । अत्र च सूत्रस्थचोदनापदेन प्रवर्तकवाक्यवत् निवर्तकवाक्यस्यापि

ग्रहणम्, अत एव "प्रवृत्तौ वा निवृत्तौ वा या शब्दश्रवणेन धीः । सा चोदना" इति

वार्त्तिकमपि सङ्गच्छते । एवं च चोदनेति क्रियायाः प्रवर्तकं वचनमित्यत्र प्रवर्तकशब्दो

निवर्तकस्याऽप्युपलक्षकः, एवं वार्तिकस्थविधिशब्दो निषेधस्याऽप्युपलक्षक इति ध्येयम् ॥

यथा यागादिरिति । एतेन गौतमीयानामिव नाऽस्माकमपि विहितकर्मजन्यापूर्वमेव धर्मः;

किन्तु विहितो यागादिरेव मुख्यो धर्मः, पूर्वे तु तज्जन्यत्वेन भाक्तः प्रयोगः इति सूचि-

तम् । आदिपदेन दानहोमादयो द्रव्यगुणादयश्च गृह्यन्ते । तत्र लक्षणं सङ्गमयति—स

हीति । ननु कथं यागादेः विधेयत्वम्, ? कश्च वा विधिः ? अत आ--तथाहीति ।

अंशद्वयं शक्तशब्दद्वयं । तत्र धातुप्रत्यययोर्मध्ये । अंशद्वयं शक्ततावच्छेदकद्वयम् । दश-

स्विति । यजेतेत्यत्र यदाख्यातत्वं तद्दशलकारसाधारणमित्यर्थः । आख्यातेति । प्रत्यय-

वृत्तिभ्यामित्यर्थः । भावनैवेति । भावनाद्वयमपीत्यर्थः । भावनास्वरूपं प्रतिपादयति-
भावना नामेति । भवितुः उत्पद्यमानस्य, भावनानुकूलः उत्पत्यनुकूलः, भावक-

व्यापारविशेषः प्रयोजकनिष्ठव्यापारविशेषः । शाब्दीति । शब्द निष्ठत्वाच्छाब्दीति ग्रन्थ-

कृदेव वक्ष्यति । लौकिकानां प्रवर्तनाविशेषाणां पुरुषधर्मत्वेन शब्दनिष्ठत्वायोगात् न तेषां

शब्दभावनात्वम् । केचित्तु प्रवर्त्तनारूपपुरुषाशय विशेषस्याऽपि लौकिकस्य शब्दाभिधेय-

त्वात् शाब्दीभावनात्वमिच्छन्ति । आर्थीति । अर्थ्यते प्रार्थ्यते पुरुषैरिति अर्थः फलम्,

तत्प्रयोजकत्वाद्भावनार्थी या फलं येनेत्यर्थः पुरुषः, तद्गतत्वादार्थी ।

तत्र तयोर्मध्ये । पुरुषेति । प्रयोज्यस्य पुरुषस्य या प्रवृत्तिः गवानयनाद्यनुकूला

[^
] तत्र इति नास्ति । [^] सा द्विविधा [^] शाब्दी आर्थी चेति । [^] लो भावकव्यापारविशेषः ।
 

 
FOUNDED
 

 
जस्विनावधाता
 

 

 
-
 

 
-