This page has not been fully proofread.

सावित्रीय
 
श्रीगणेशाय नमः ।
आपदेवकृतः
 
मीमांसान्यायप्रकाशः ।
 
महामहोपाध्याय - श्रीचिन्न स्वामिशास्त्रिकृतया
सारविवेचिन्याख्यया व्याख्यया संवलितः ।
 
ocom 10
 
यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।
प्राप्यते तमहं वन्दे गोविन्दं भक्तवत्सलम् ॥ १ ॥
अनन्तगुणसम्पन्नमनन्तभंजनप्रियम् ।
अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ २ ॥
 
FAR
 
इह खलु परमकारुणिकेन भगवता (१)जैमिन्यूषिणा "अथातो धर्मजिज्ञासा"
(२) इत्यादिना द्वादशस्वध्यायेषु धर्मो विचारितः । तत्र वेदेन प्रयोजनमुद्दिश्य
 
श्रीशिवाभ्यां नमः ॥
मीमांसान्यायप्रकाशटीका सारविवेचिन्याख्या ।
 
कलत्रीकृतवामार्धमर्द्धेन्दुकृतशेखरम् ।
भूषणीभूतभोगीन्द्रमस्तु स्वस्तिकरं महः ॥
 
नत्वा गुरून् महाभागान् बालानां हितकाम्यया ।
व्याख्यां न्यायप्रकाशस्य कुर्वे सारविवेचिनीम् ॥
 
फिल
 
तत्रादौ ग्रन्थकर्त्ता श्रीमदनन्तदेवसूनुः श्रीमदापदेवो मीमांसान्यायप्रकाशाख्यं पूर्व-
मीमांसाप्रकरणग्रन्थं चिकीर्षः स्वीयग्रन्थस्य निर्विघ्नपरिसमाप्तिमभिलषन्नीश्वरं स्तौति-
यत्कृपेति । प्राप्यत इति । जनैरिति शेषः । गुरुं प्रणमति-अनन्तेति द्वितीयेन ।
अनन्तगुणेति । दयादाक्षिण्यविनयाद्यनेकगुणविशिष्टमित्यर्थः । श्रनन्तभजनप्रिय-
मिति । अनन्तो भगवान् विष्णुः, तद्भजने प्रीतिमन्तमित्यर्थः । अनन्तरूपिण-
मिति । रूप्यते बोध्यतेऽनेनेति व्युत्पत्या रूपशब्दो नामपरः । अनन्तनामानमित्यर्थः 1
गुरुपरमात्मनो रैक्यं स्मरति आनन्देति ।
 
अथातो धर्मजिज्ञासेत्यादिनेति । "अन्वाहार्ये च दर्शनात्" इत्यन्तेनेति
शेषः । अथ गुरुकुलावस्थिति पूर्व कसाङ्गवेदाध्ययनानन्तरं, अतः वृत्तस्याऽध्ययनस्य
दृष्टफलकत्वाद्धेतोः, धर्मजिज्ञासा धर्मविषयकविचारः कर्त्तव्य इति सूत्रार्थः । धर्मो
विचारित इति । प्रमाणभेदशेषत्वप्रयुक्तिक्रमाधिकारसामान्य विशेषातिदेशोहबाधतन्त्र-
प्रसङ्गाख्यैः द्वादशस्वध्यायेषु क्रमशो निरूपितैः परिकरैः सहितो धर्मो विचारित इत्यर्थः ।
धर्मलक्षणमाह – वेदेनेति । स्वातन्त्र्येणेति शेषः । अतः स्मृत्याचारयोः वेदमूलकत्वेन
१ जैमिनिमुनिना । २ इत्यारभ्य।
 
O
 
धा
 
On
Research Institute