This page has not been fully proofread.

सावित्रीय
 
श्रीगणेशाय नमः ।

आपदेवकृतः
 

मीमांसान्यायप्रकाशः ।
 

 
महामहोपाध्याय - श्रीचिन्न स्वामिशास्त्रिकृतया

सारविवेचिन्याख्यया व्याख्यया संवलितः ।
 
ocom 10
 

 
यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।

प्राप्यते तमहं वन्दे गोविन्दं भक्तवत्सलम् ॥ १ ॥

अनन्तगुणसम्पन्नमनन्तभंजनप्रियम् ।

अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ २ ॥
 
FAR
 

 
इह खलु परमकारुणिकेन भगवता ([^)] जैमिन्यूषिणा "अथातो धर्मजिज्ञासा"
(

[^
)] इत्यादिना द्वादशस्वध्यायेषु धर्मो विचारितः । तत्र वेदेन प्रयोजनमुद्दिश्य
 

 
[commentary]
 
श्रीशिवाभ्यां नमः ॥

मीमांसान्यायप्रकाशटीका सारविवेचिन्याख्या ।
 

 
कलत्रीकृतवामार्धमर्द्धेन्दुकृतशेखरम् ।

भूषणीभूतभोगीन्द्रमस्तु स्वस्तिकरं महः ॥
 

 
नत्वा गुरून् महाभागान् बालानां हितकाम्यया ।

व्याख्यां न्यायप्रकाशस्य कुर्वे सारविवेचिनीम् ॥
 
फिल
 

 
तत्रादौ ग्रन्थकर्त्ता श्रीमदनन्तदेवसूनुः श्रीमदापदेवो मीमांसान्यायप्रकाशाख्यं पूर्व-

मीमांसाप्रकरणग्रन्थं चिकीर्षःषुः स्वीयग्रन्थस्य निर्विघ्नपरिसमाप्तिमभिलषन्नीश्वरं स्तौति-
यत्कृपेति । प्राप्यत इति । जनैरिति शेषः । गुरुं प्रणमति--अनन्तेति द्वितीयेन ।

अनन्तगुणेति । दयादाक्षिण्यविनयाद्यनेकगुणविशिष्टमित्यर्थः । श्रनन्तभजनप्रिय-

मिति । अनन्तो भगवान् विष्णुः, तद्भजने प्रीतिमन्तमित्यर्थः । अनन्तरूपिण-

मिति । रूप्यते बोध्यतेऽनेनेति व्युत्पत्या रूपशब्दो नामपरः । अनन्तनामानमित्यर्थः 1

गुरुपरमात्मनो रैक्यं स्मरति -आनन्देति ।
 

 
अथातो धर्मजिज्ञासेत्यादिनेति । "अन्वाहार्ये च दर्शनात्" इत्यन्तेनेति

शेषः । अथ गुरुकुलावस्थिति पूर्व कसाङ्गवेदाध्ययनानन्तरं, अतः वृत्तस्याऽध्ययनस्य

दृष्टफलकत्वाद्धेतोः, धर्मजिज्ञासा धर्मविषयकविचारः कर्त्तव्य इति सूत्रार्थः । धर्मो

विचारित इति । प्रमाणभेदशेषत्वप्रयुक्तिक्रमाधिकारसामान्य विशेषातिदेशोहबाधतन्त्र-

प्रसङ्गाख्यैः द्वादशस्वध्यायेषु क्रमशो निरूपितैः परिकरैः सहितो धर्मो विचारित इत्यर्थः ।

धर्मलक्षणमाह वेदेनेति । स्वातन्त्र्येणेति शेषः । अतः स्मृत्याचारयोः वेदमूलकत्वेन

[^
] जैमिनिमुनिना । [^] इत्यारभ्य।
 

 
O
 

 
धा
 

 
On

Research Institute